*श्रीरामायणकथा, बालकाण्डम्।*
(एकविंशतितमो भागः)
विवाहात् प्राग् औपचारिकप्रस्तुतिः।
(द्वितीयः खण्डः)
राजा जनकः अवदत् हे महर्षे! भवान् सर्वथा उचितम् अवदत्। इदानीम् अहमपि मम कुलस्य परिचयं ददामि। प्राचीनकाले निमिः नामकः कश्चन धर्मात्मा राजा आसीत्। तस्य पुत्रः मिथिः यः मिथिलानगर्याः स्थापनाम् अकरोत्। मिथेः पुत्रस्य नाम जनकः आसीत्। तदारभ्य तस्यैव नाम्नि मिथिलायाः प्रत्येकं राजा जनकः आख्यायते।
जनकस्य पुत्रः उदावसुः, उदावसोः पुत्रः नन्दिवर्धनः आसीत्। नन्दिवर्धनस्य पुत्रस्य नाम शूरवीरः आसीत्। शूरवीरस्य पुत्रः सुकेतुः, सुकेतोः पुत्रः देवरातः अभवत्। देवरातस्य पुत्रस्य नाम बृहद्रथः आसीत्। बृहद्रथस्य पुत्रः महावीरः, महावीरस्य च पुत्रः सुधृतिः अभवत्। सुधृतेः पुत्रस्य नाम धृष्टकेतुः आसीत्। धृष्टकेतोः पुत्रः हर्यश्वः, हर्यश्वस्य पुत्रः मरुः अभवत्। मरोः पुत्रः प्रतीन्धकः, प्रतीन्धकस्य च पुत्रः कीर्तिरथः अभवत्। कीर्तिरथस्य पुत्रः देवमीढः, देवमीढस्य पुत्रः विबुधः, विबुधस्य च पुत्रः महीन्ध्रकः अभवत्।
महीन्ध्रकस्य पुत्रस्य नाम महारोमा, महारोम्नः पुत्रस्य नाम स्वर्णरोमा आसीत्। स्वर्णरोम्नः पुत्रः हृस्वरोमा अभवत्। हृस्वरोम्नः द्वौ पुत्रौ अभवताम्। तयोः ज्येष्ठः अहम्, कनिष्ठः च कुशध्वजः मम कनिष्ठः भ्राता।
आवाम् उभावपि भ्रातरौ अस्मिन्नेव प्रदेशे स्थित्वा राज्यं पालयावः।
किञ्चित् कालात् पूर्वं साङ्काश्यस्य पराक्रमी राजा सुधन्वा मिथिलायाम् आक्रमणम् अकरोत्। सः इच्छति स्म यत् तेन सह अहं मम पुत्र्याः सीतायाः विवाहं कारयेयम्। अहं तथा न अकरवम् अतः तेन सह मम युद्धम् अभवत् यस्मात् राजा सुधन्वा अम्रियत। तदारभ्य मम कनिष्ठः भ्राता कुशध्वजः साङ्काश्यं पालयति, अहं च मिथिलां पालयामि।
अहं मम ज्येष्ठपुत्र्याः सीतायाः विवाहं रामचन्द्रेण सह, कनिष्ठपुत्र्याः उर्मिलायाः च विवाहं तस्य कनिष्ठभ्रात्रा लक्ष्मणेन सह कारयितुम् इच्छामि। अहं त्रिवारम् एतद् वाक्यम् उक्त्वा स्वीये उभे कन्ये भवतः वधूरूपेण भवते समर्पयामि। पुनः सः राजानं दशरथम् अवदत् हे नृपश्रेष्ठ! इदानीं भवान् गोदानं कारयित्वा नान्दीमुखश्राद्धकर्म सम्पन्नं कुर्यात्।
ततः परं लोकप्रचलितपद्धतेः अनुसारं विवाहकार्यस्य आरम्भं कुर्यात्।
अवसरोऽयं सर्वथा उपयुक्तः कल्याणकारी च विद्यते।
अद्य मघानक्षत्रम् अस्ति। त्रयाणां दिनानाम् अनन्तरं फाल्गुनीनक्षत्रं भविता। एतस्मात् अधिकः उपयुक्तसमयः विवाहाय न भवेत्।
भवान् तयोः भ्रात्रोः अभ्युदयाय गौः, भूमिः, स्वर्णम्, तिलः इत्यादीनां दानं कारयतु।
राज्ञः जनकस्य वचनात् परम् ऋषिः विश्वामित्रः अवदत् हे राजन्! भवतः कुलं राज्ञः दशरथस्य च कुलं पूर्णतया धर्मपरायणम्, कीर्तियुक्तम्, समानं च विद्यते। अतः भवतोः उभयोः कुलयोः विवाहसम्बन्धः सर्वथा उपयुक्तः एव।
सीता उर्मिला च उभे रामलक्ष्मणयोः कृते सर्वथा उपयुक्ते स्तः। भवतः कनिष्ठभ्राता कुशध्वजोऽपि भवादृशः धर्मपरायणः प्रतिभासम्पन्नः च विद्यते। तस्यापि द्वे रूपवत्यौ सुन्दर्यौ विवाहयोग्ये कन्ये स्तः।
अतः हे नरश्रेष्ठ! अहम् इच्छामि यत् तयोः अपि विवाहः राज्ञः दशरथस्य द्वाभ्यां पराक्रमिपुत्राभ्यां भरतशत्रुघ्नाभ्यां सह भवतु।
ऋषेः विश्वामित्रस्य वचनं श्रुत्वा राजा जनकः अब्रवीत् हे महर्षे! भवतः एतम् आदेशं स्वीकुर्वन् अहं मम कुलं धन्यं मन्ये। भवान् भरतशत्रुघ्नाभ्याम् आज्ञां ददातु यत् तौ कुशध्वजस्य उभे पुत्र्यौ माण्डवीं श्रुतकीर्तिं च स्वपत्नीरूपेण स्वीकुर्याताम्।
ततः परं मिथिलानरेशात् आज्ञां नीत्वा राजा दशरथः वशिष्ठविश्वामित्राभ्यां सह स्वीयं वासस्थानम् अगच्छत्। परेद्यवि चत्वारः राजकुमाराः अपि याचकेभ्यः गोदानम् अकुर्वन्, ब्राह्मणेभ्यः च बहूनि धनानि, रत्नानि च दानरूपेण अददुः।
*-प्रदीपः!*
No comments:
Post a Comment