*श्रीरामायणकथा, बालकाण्डम्।*
(विंशतितमो भागः)
अयोध्यां प्रति मिथिलानरेशस्य सन्देशः, अयोध्यायां च तस्य सज्जता।
(द्वितीयः खण्डः)
एवमुक्त्वा राजा दशरथः मन्त्रिभ्यः आदेशम् अददात् यत् ते मिथिलातः आगतानाम् अतिथीनाम् उचितं सत्कारं कुर्युः, तेषां कृते च भोजनं, शयनं च इत्यादीनां समुचितं प्रबन्धं कुर्युः।
ततः परं राजा दशरथः स्वयं राजप्रासादस्य अन्तः प्राविशत् राज्ञीः च शुभसंवादम् अश्रावयत्।
शीघ्रं हि सा वार्ता सम्पूर्ण-अयोध्यानगर्यां प्रसृता अभवत्। प्रत्येकं गृहेषु मङ्गलगानम् आरभ्यत, नृत्यसङ्गीतयोः च आयोजनं भवति स्म।
महाराजस्य आज्ञां प्राप्य मन्त्रिणः भृत्याश्च विवाहस्य सज्जतायां निमग्नाः अभवन्। प्रत्येकं जनानां मनसि अत्यन्तम् उत्साहः आसीत्। एतद् दृष्ट्वा एवं प्रतीयते स्म यत् प्रत्येकं मनुष्यस्य अन्तः विद्युत् प्रवहति स्म। सर्वे द्रुतगत्या सर्वं कार्यं सम्पादयन्ति स्म।
यदा मध्यरात्रिः अभवत् तदा हि यात्रायै सर्वा सज्जता पूर्णा अभवत्। परेद्यवि प्रातःकाले राजा दशरथः दलबलाभ्यां सह मिथिलापुरीं प्रति प्रस्थानम् अकरोत्। चतुर्णां दिनानां यात्रां कृत्वा वरयात्रिणः मिथिलापुरीं प्राप्नुवन्।
ऋषि-मुनयः, कुटुम्बजनाः, मन्त्रिणः, अन्ये बहवः वरयात्रिणः च इत्यादिभिः सर्वैः सह राजा दशरथः मिथिलापुरीम् आगच्छति इति संवादं प्राप्य मिथिलानरेशः जनकः तस्य मन्त्रिणः, पुरोहितः, ऋषि-मुनयः विद्वांसः च इत्यादिभिः सह राज्ञः दशरथस्य स्वागताय मिथिलानगर्याः मुख्यं द्वारम् अगच्छत्।
राजा जनकः अत्यन्तम् आदरेण सह राज्ञः दशरथस्य अभ्यर्थनां कुर्वन् अवदत् हे नृपश्रेष्ठ! भवतः दर्शनं कृत्वा अहं कृतज्ञः अभवम्। भवतः पदार्पणेन जनकपुर्याः भूमिः धन्या अभवत्। मम पुत्रीं सीतां कुलवधूरूपेण स्वीकृत्य भवान् मम वंशस्य सम्मानम् अकरोत्।
एतद् मम अहोभाग्यं यद् अद्य मिथिलापुर्यां महर्षिः वशिष्ठः, वामदेवः, मार्कण्डेयः कात्यायनः च इत्येतेषां महात्मनां तपस्विनां पदार्पणम् अभवत्।
अहम् अवगन्तुमेव न शक्नोमि यद् एतदसाधारणं सम्मानं प्राप्य केन प्रकारेण मम भाग्यस्य विवरणं कुर्याम्।
एवं प्रकारेण राजा जनकः राज्ञा दशरथेन सह आगतानां तेषां सर्वेषां महानुभावानाम् आदरसत्कारं कृत्वा तेषां शयनाय उचितं प्रबन्धम् अकरोत्।
शयनकक्षायां राजा दशरथः बहुकालं यावत् ऋषिणा विश्वामित्रेण सह उपविश्य तस्य पुत्रयोः रामलक्ष्मणयोः पराक्रमस्य विवरणम् अशृणोत्।
ऋषेः विश्वामित्रस्य मुखात् रामलक्ष्मणयोः पराक्रमस्य विवरणं श्रुत्वा राजा दशरथः कदाचिद् रोमाञ्चितः भवति स्म, कदाचिद् आश्चर्यचकितः भवति स्म। पुनः कदाचिच्च तयोः प्रशंसां करोति स्म।
एवं प्रकारेण वार्तालापात् परं ते सर्वे भोजनादिकं समाप्य विश्रमं कर्तुम् अगच्छन्।
*-प्रदीपः।*
No comments:
Post a Comment