*श्रीरामायणकथा, बालकाण्डम्।*
(अष्टादश भागः)
धनुर्यज्ञः।
मिथिलायाः नरेशस्य ततः प्रस्थानात् परम् ऋषिः विश्वामित्रः रामं लक्ष्मणं च नीत्वा यज्ञमण्डपम् अगच्छत्। यज्ञमण्डपः अत्यन्तं सुरुच्या सुसज्जितः आसीत्। तं भव्यं मण्डपं दृष्ट्वा एवं प्रतीयते स्म यत् सः मण्डपः देवराजस्य इन्द्रस्य राजसभा इति।
देशदेशान्तरेभ्यः आगतानां राज्ञां राजकुमाराणां च उपवेशनस्य व्यवस्था उत्तमतया कृता आसीत्।
सः मण्डपः बहुमूल्यरत्नैः सुसज्जितः आकर्षकवस्त्रैः च वेष्टितः आसीत्। मण्डपं परितः स्थापिताः ध्वजाः मिथिलानरेशस्य कीर्तिं प्रदर्शयन्ति स्म।
वेदपाठिब्रह्मणाः तपस्विनः च शान्तिपाठं कुर्वन्ति स्म। वस्त्राभूषणैः सुसज्जिताः राजकुमाराः स्वीये स्वीये आसन्दे विराजमानाः आसन्।
मण्डपस्य तद् दृश्यं दृष्ट्वा एवं प्रतीयते स्म यत् सहस्रशः इन्द्राः स्ववैभवं सौन्दर्यं च प्रदर्शयितुं महाराजस्य जनकस्य यज्ञभूमौ एकत्रिताः अभवन्।
तर्जनं गर्जनं कुर्वन्तः बहुशः जनाः मिलित्वा पिनाकधनुः कथञ्चिद् आनीय मनोमुग्धकारिवातावरणे यज्ञभूमौ अस्थापयन्। सर्वे अत्यन्तं कुतूहलेन तं पिनाकं पश्यन्ति स्म।
तद् विशालं बज्रवद् धनुः दृष्ट्वा महतां बलवतां जनानामपि धैर्यं त्रुटति स्म, तेषां शरीरात् स्वेदः च निस्सरति स्म।
पिनाकः यथास्थाने स्थापितः आसीत्।
राज्ञः जनकस्य ज्येष्ठपुत्रः, सीतया, तस्याः सखीभिः च सह धनुषः समीपं गत्वा अवदत् हे सम्पूर्णसंसारस्य राजानः राजकुमाराः च! महाराजः जनकः प्रतिज्ञाम् अकरोत् यद् यः कोपि वीरः महादेवस्य एतस्मिन् धनुषि प्रत्यञ्चां बन्द्धुं शक्नुयात्, तेन वीरेण सह मिथिलापतिः महाराजः जनकः तस्य पुत्र्याः सीतायाः विवाहं कारयिष्यति।
राज्ञः जनकस्य एतां प्रतिज्ञां श्रुत्वा सर्वे राजानः राजकुमाराश्च क्रमेण तस्मिन् धनुषि प्रत्यञ्चां बन्द्धुम् आगच्छन्। किन्तु धनुषि प्रत्यञ्चाबन्धनं तु दूरे तिष्ठतु, तेषु कश्चिदपि तद् धनुः उन्नेतुमपि न अशक्नोत्।
अन्ते च ते लज्जिताः सन्तः शिरः अवनमय्य श्रीहीनाः च भूत्वा स्वीयं स्वीयं स्थानम् अगच्छन्।
एवं प्रकारेण ते सर्वे विफलाः अभवन् इति दृष्ट्वा राजा जनकः अत्यन्तं दुःखितः अभवत्। सः निराशः सन् मर्मभेदिस्वरेण अवदत्- सम्पूर्णसंसारस्य विख्याताः शक्तिशालिनः योद्धारः अत्र विद्यमानाः सन्ति, किन्तु महद् दुःखं यत् तेषु कश्चिदपि पिनाके प्रत्यञ्चां बन्द्धुं न अशक्नोत्।
तेषां व्यर्थतां दृष्ट्वा एवं प्रतीयते यत् पृथिवी शूरवीरेभ्यः क्षत्रियेभ्यः रिक्ता अभवत्। यदि अहं पूर्वम् अज्ञास्यं यद् अस्मिन् संसारे यथार्थतः कश्चिदपि क्षत्रियः योद्धा नास्ति तर्हि अहं धनुर्यज्ञस्य अनुष्ठानं न अकरिष्यं न च प्रतिज्ञाम् अकरिष्यम्।
मन्ये मम पुत्री सीता आजीवनं कुमारी भूत्वा तिष्ठेत्। परमात्मा तस्याः भाग्ये विवाहं न अलिखत्।
*-प्रदीपः!*
No comments:
Post a Comment