*श्रीरामायणकथा, बालकाण्डम्!*
(सप्तदश-भागः)
पिनाकधनुषः कथा।
अपरस्मिन् दिने प्रातःकाले महर्षिः विश्वामित्रः राजानं जनकम् अवदत् राजन्! दशरथस्य एतयोः द्वयोः कुमारयोः पिनाकं द्रष्टुम् इच्छा अस्ति। अतः भवान् तयोः इच्छां पूर्णां कुर्यात्। राज्ञः जनकस्य प्रत्युत्तरात् प्राग् हि रामः अवदत् हे नरश्रेष्ठ! आदौ भवान् पिनाकस्य दृष्टान्तं श्रावयतु। अहम् अशृणवं यत् पिनाकः भगवतः शङ्करस्य प्रियं धनुः आसीत्। सः पिनाकः भवतः समीपं कथम् आगच्छत्?
राजा जनकः अवदत् हे राम! एकदा प्रजापतिः दक्षः विशालं यज्ञम् अकरोत्। दक्षः भगवतः शङ्करस्य श्वशुरः आसीत्। दक्षः स्वीये जामातरि अप्रसन्नः आसीत् इति कारणतः सः जामातारं शिवं न निमन्त्रितवान् न च तस्य पुत्रीं सतीम्। पतिः शिवः तां सतीं न्यवारयत् चेदपि सती यज्ञे भागं ग्रहीतुं पितुः गृहम् अगच्छत्।
तत्र सत्याः बहुः अपमानः अभवत्। सती अपश्यत् यत् सर्वेषां देवानां कृते यज्ञस्य भागम् आसीत् किन्तु भगवतः शिवस्य कृते नासीत्।
एतस्मात् कुपिता भूत्वा देवी सती यज्ञकुण्डे कूर्दित्वा स्वीयान् प्राणान् अत्यजत्। नन्दी भृङ्गी च इत्यादयः ये महादेवस्य अनुचराः देव्या सत्या सह आगच्छन् ते ततः प्रत्यगत्य महादेवं सर्वं वृत्तान्तम् अश्रावयन्। देव्याः सत्याः मृत्योः सूचनां प्राप्य भगवान् शिवः अत्यन्तं कुपितः अभवत्।
सः राज्ञः दक्षस्य यज्ञमण्डपं गत्वा यज्ञं नष्टम् अकरोत्। पुनः च सः सर्वान् देवान् हन्तुं पिनाकधनुः हस्ते आदाय अग्रेसरः अभवत्, यतः ते देवाः यज्ञस्य भागं तस्मै महादेवाय न अददुः।
महादेवस्य तद् रौद्ररूपं दृष्ट्वा सर्वे देवाः भीताः अभवन्। देवाः सर्वे तदा अनुनयविनयं कृत्वा महादेवस्य क्रोधम् अशमयन्। भगवतः शिवस्य यदा क्रोधः शान्तः अभवत् तदा सः पिनाकधनुः देवेभ्यः दत्त्वा कैलाशम् अगच्छत्।
देवाः तद् धनुः अस्माकं पूर्वपुरुषाय देवराताय अददुः। तदारभ्य अस्माकं पार्श्वे हि अस्ति। अस्माकं पूर्वजानां स्मृतिचिह्नं तद् धनुः इति कारणतः सम्मानेन सह वयं तस्य धनुषः रक्षणं कुर्मः।
अत्रान्तरे एकदा अस्माकं राज्ये अनावृष्टेः कारणात् दुर्भिक्षम् अभवत् यस्मात् प्रजाः सर्वाः भयङ्करकष्टं सहन्ते स्म।
तस्मात् कष्टात् मुक्तेः हेतोः अहं महान्तं यज्ञम् अकरवम्। पुरोहितानाम् आदेशानुसारम् अहं स्वयं क्षेत्रे हलम् अकर्षम्। हलस्य कर्षणसमये ईश्वरस्य अनुग्रहेण क्षेत्रे हि एका परमा रूपवती कन्या मया प्राप्ता।
*-प्रदीपः!*
No comments:
Post a Comment