*श्रीरामायणकथा, बालकाण्डम्।*
(अष्टादश भागः)
धनुर्यज्ञः।
(द्वितीयः खण्डः)
महाराजस्य जनकस्य वचनं श्रुत्वा सर्वे राजानः राजकुमाराश्च ये स्वव्यर्थतायाः कारणात् पूर्वं हि लज्जिताः अभवन् ते क्षुब्धमनसा शिरः अवनमय्य उपाविशन्। राज्ञा जनकेन कृतायाः भर्त्सनायाः उत्तरं तेषां पार्श्वे नासीत्। परन्तु अयोध्यायाः कनिष्ठः राजकुमारः लक्ष्मणः राज्ञा जनकेन समस्तक्षत्रियसमाजस्य उपरि आरोपितं लाञ्छनं न असहत।
सः कुपितः सन् उच्चैः तीव्रशब्देन अवदत् हे मिथिलानरेश जनक! भवता यदुक्तं तत् सर्वथा अनुचितं वर्तते। भवतः वचनेन सूर्यकुलस्य तथा रघुवंशस्य अपमानः अभवत्। आश्चर्यं यद् भवान् इत्थम् अपमानजनकशब्दस्य प्रयोगं कथम् अकरोत्! यत्र प्रतापिसूर्यकुलस्य साधारणः कश्चन विद्यमानः स्यात्, तत्र कश्चिद् एवं प्रकारेण तिरस्कारपूर्णशब्दस्य प्रयोगात् पूर्वं बहुवारं विचारयति। पुनः अत्र तु सूर्यकुलस्य मणिः श्रीरामचन्द्रः साक्षात् विराजमानः अस्ति!
भवान् शिवस्यास्य जीर्णपिनाकस्य एतावन्तं गरिमानं साधयितुम् इच्छति? अहं कमपि अभिमानं विना वक्तुं शक्नुयां यद् अस्य जीर्णधनुषः का वार्ता, यदि अहम् इच्छेयं तर्हि स्वबाहुबलेन अस्य धनुषः स्वामिना महादेवेन सह सम्पूर्णं सुमेरुपर्वतं कम्पयेयम्।
इमां विशालपृथ्वीम् इदानीमेव रसातलं प्रापयेयम्।
एवं वदतः लक्ष्मणस्य नेत्रे क्रोधेन रक्तवर्णे अभवताम्। क्रोधेन च तस्य शरीरं कम्पते स्म।
*-प्रदीपः।*
No comments:
Post a Comment