Saturday, February 3, 2024

Srimad Ramayana Bala kanda part 20 in sanskrit

*श्रीरामायणकथा, बालकाण्डम्।*
(विंशतितमो भागः)
अयोध्यां प्रति मिथालानरेशस्य सन्देशः, अयोध्यायां च तस्य सज्जता।

मिथिलापुरीतः अयोध्यापर्यन्तं त्रिदिवसीययात्रां कृत्वा राज्ञः जनकस्य मन्त्रिणः पुरोहितः च राज्ञः दशरथस्य राजप्रासादं प्राप्नुवन्। 
रत्नसिंहासने विराजमानस्य राज्ञः दशरथस्य अभिवादनात् परं मिथिलायाः मन्त्री अभवत् हे राजन्! मिथिलानरेशः भवतः कुशलवार्ताम् अपृच्छत्, महर्षेः विश्वामित्रस्य आज्ञया च भवत्कृते  एतं सन्देशम् अप्रेषयत् यत् समस्तसंसारः जानाति यद् मिथिलायाः राज्ञः जनकस्य पुत्री सीता अत्यन्तं रूपवती, लावण्यमयी, समस्तसद्गुणैः सम्पन्ना अस्ति।  

राजा जनकः कञ्चन महान्तं यज्ञम् अकरोत्। स च प्रतिज्ञाम् अकरोत् यद् यः कोपि वीरः भगवतः शङ्करस्य विख्यातधनुषि पिनाके प्रत्यञ्चां बन्द्धुं शक्नुयात् तेन वीरपुरुषेण सह तस्य पुत्र्याः सीतायाः विवाहं कारयिष्यति इति। तस्मिन् यज्ञे भागं ग्रहीतुं ऋषिः विश्वामित्रः रामलक्ष्मणौ नीत्वा जनकपुरीम् अगच्छत्। 

रामः धनुषि न केवलं प्रत्यञ्चाम् अबध्नात्, अपितु सः तद् धनुः त्रुटित्वा भागद्वयम् अकरोत्। 
एवं रामः स्वस्य महता पराक्रमेण रूपवतीं सीताम् अलभत। अतः राजा जनकः भवतः सादरम् अनुरोधं कुर्वन् एतं सन्देशम् अप्रेषयत् यद् भवान् भवतः  समस्तकुटुम्बजनाः मन्त्रिणः, पुरोहितः, गुरुः वसिष्ठः च तैः सर्वैः सह वरयात्रिरूपेण शीघ्रं हि मिथिलापुर्यां पदार्पणं कुर्यात् येन श्रीरामचन्द्रेण सह सौभाग्यकाङ्क्षिण्याः सीतायाः विवाहः वैदिकरीत्या सुसम्पन्नः भवेत् , मिथिलानरेशः च कन्यायाः ऋणात् मुक्तः भवेत्।

एतं शुभसन्देशं श्रुत्वा महाराजः दशरथः अत्यन्तं प्रसन्नः अभवत्।  रामलक्ष्मणयोः कुशलता, तयोः अद्भुतपराक्रमः च इत्यादीनां वार्तां श्रुत्वा सः  अत्यन्तं हर्षितः अभवत्।
सः मन्त्रिणम् अवदत् हे मन्त्रिवर! मम हृदयं रामलक्ष्मणाभ्यां सह मेलितुं व्याकुलं भवति, अतः भवान् शीघ्रं हि सर्वैः कुटुम्बजनैः सह जनकपुरीं गन्तुं व्यवस्थां कुर्यात्। राज्यस्य समस्तबन्धु-बान्धवाः, प्रतिष्ठिताः धनाढ्याः, विद्वांसः, च तेऽपि वरयात्रिभिः सह  मिथिलापुरीं गन्तुं तेभ्यः निमन्त्रणपत्रं ददातु। 

सेनापतिं भणतु यत् सः शीघ्रं चतुरङ्गिणीसेना तत्र गमनाय सज्जा भवतु इत्यस्य आदेशं दद्यात्।
भवान् एवं व्यवस्थां कुर्यात् येन वयं सर्वे श्वः एव मिथिलां प्रति प्रस्थानं कुर्याम, यतः मिथिलानरेशः शीघ्रं हि तत्र अस्माकं गमनस्य आग्रहम् अकरोत्।

अपिच हे मन्त्रिवर! परमपूज्यः राजगुरुः वशिष्ठः, वामदेवः, जाबालिः, कश्यपः, मार्कण्डेयः, महर्षिः कात्यायनः च इत्येतान् ऋषि-मुनीन् अपि प्रार्थयतां यत् श्वः  प्रातःकाले अस्माकं यात्रायाः पूर्वं हि ते 
जनकपुरीं प्रति प्रस्थानं कुर्वन्तु। 
अत्रान्तरे अहं मम त्रिसृभ्यः राज्ञीभ्यः एतां शुभवार्तां प्रदातुं गच्छामि।  
*-प्रदीपः!*

No comments:

Post a Comment