*श्रीरामायणकथा, बालकाण्डम्।*
(नवदशो भागः)
श्रीरामद्वारा धनुर्भङ्गः।
अत्यन्तं कुपितं लक्ष्मणं दृष्ट्वा रामः तम् इङ्गीतेन स्वीये स्थाने आसितुं निरदिशत्, गुरोः विश्वामित्रस्य च मुखम् अपश्यत्। श्रीरामस्य भङ्गिमानं दृष्ट्वा एवं प्रतीयते स्म यत् श्रीरामः गुरुं विश्वामित्रं पृच्छति स्म यत् तस्यां परिस्थितौ तेन रामेण किं करणीयम् इति।
गुरुः विश्वामित्रः रामस्य भावं ज्ञात्वा अवदत् वत्स! लक्ष्मणः सूर्यकुलस्य मर्यादायाः गौरवस्य च यद् वर्णनम् अकरोत् तत् सत्यमेव।
इदानीं त्वं तस्मिन् धनुषि प्रत्यञ्चां बद्ध्वा लक्ष्मणस्य वचनं प्रमाणीकृत्य दर्शय।
गुरोः आज्ञां प्राप्य रामचन्द्रः मन्दगत्या एकं पदं पदद्वयम् इति कृत्वा धनुषः समीपम् अगच्छत्। धनुषः समीपं गच्छन्तं रामं दृष्ट्वा सीता, तस्याः सख्यः,तथा च जनकपुर्याः सर्वे दर्शकाः अत्यन्तं प्रसन्नाः अभवन्। किन्तु तेषां संशयोऽपि आसीत्, ते अचिन्तयन् च यद् विश्वविख्याताः शक्तिशालिनः राजानः राजकुमाराश्च भगवतः शिवस्य एतद् धनुः उन्नेतुमपि न अशक्नुवन्, पुनः रामः तु सुकुमारः बालकः कथं तस्मिन् धनुषि प्रत्यञ्चां बन्द्धुं शक्नुयात्?
सीता तदा मनसा परमात्मनः प्रार्थनां कर्तुम् आरभत हे सर्वशक्तिमन्! रामः तस्य उद्देश्ये सफलः भवतु तदर्थं दयां कुर्यात्। मम हृदयमपि इदानीं तं प्रति आकर्षितम् अभवत्। अतः मम इच्छामपि पूरयेत् भगवन्।
हे प्रभो! भवान् स्वशक्त्या एतद् धनुः एतावद् मृदुलं कुर्यात्, येन रामः अनायासेन उन्नेतुं शक्नुयात्।
धनुषः समीपं गत्वा रामः धनुषः मध्यभागं गृहीत्वा अनायासेन तद् धनुः उदधरत्, क्रीडनकवत् च तस्मिन् धनुषि प्रत्यञ्चाम् अबध्नात्।
प्रत्यञ्चां बद्ध्वा यदा तां प्रत्यञ्चां गृहीत्वा रामः अकर्षत् तदा तद् धनुः भयङ्करनादं कुर्वत् अत्रुटत्।
धनुषः तेन नादेन अधिकांशदर्शकाः मूर्छिताः भूत्वा भूमौ अपतन्।
केवलं ऋषिः विश्वामित्रः, राजा जनकः, रामः, लक्ष्मणः च इत्येतेषाम् उपरि तस्य भयङ्करनादस्य मनागपि प्रभावः न अपतत्।
किञ्चित् कालानन्तरं यदा ते चैतन्यं प्राप्नुवन् तदा ते सर्वे रामस्य जयजयकारम् अकुर्वन्।धनुर्भङ्गात् परं राजा जनकः ऋषिं विश्वामित्रम् अवदत् हे मुनिवर! मम प्रतिज्ञा पूर्णा अभवत् अतः अहं मम पुत्र्याः सीतायाः विवाहं रामचन्द्रेण सह कारयितुम् इच्छामि।
इदानीं विवाहस्य सन्देशं नीत्वा राज्ञः दशरथस्य समीपं अयोध्यापुरीं गन्तुं मम मन्त्रिणः पुरोहितं च प्रेषयितुम् इच्छामि इत्यस्य आज्ञां ददातु।
विश्वामित्रः प्रसन्नः सन् अवदत् राजन्! भवान् एवमेव कुर्यात्, इत्येव उचितम्। अपिच भवतः मन्त्रिभ्यः तमपि आदेशं ददातु यत् ते राज्ञे दशरथाय सन्देशं दद्युः यत् तस्य उभावपि राजकुमारौ कुशलपूर्वकम् अत्र प्राप्नुताम्।
विश्वामित्रस्य वचनात् सन्तुष्टः राजा जनकः स्वीयां पुत्रीं सीताम् आह्वयत्। सा च वरमालां हस्ते आदाय सखीभिः सह लज्जमाना मन्दगत्या रामचन्द्रस्य समीपम् आगच्छत्। सर्वाः सख्यः च तदा मङ्गलगीतं गातुम् आरभन्त। लज्जा, सङ्कोचः, हर्षः च इत्यादिभिः भावैः परिपूर्णा सीता शनैः श्रीरामस्य कण्ठे वरमालाम् अददात्।
*प्रदीपः!*
No comments:
Post a Comment