Saturday, January 27, 2024

Srimad Ramayana Blakanda part 14 in sanskrit

courtesy : Sri Pradip Kumar Nath
*श्रीरामायणकथा बालकाण्डम्।*
(चतुर्दशः भागः)
ऋषेः विश्वामित्रस्य पूर्वचरित्रम्।

रामं दृष्ट्वा मिथिलायाः राजपुरोहितः शतानन्दः विशेषरूपेण प्रभावितः अभवत्। शतानन्दः अवदत् हे राम! त्वं महान् सौभाग्यशाली असि यत् त्वं ऋषिं विश्वामित्रं गुरुरूपेण प्राप्नोः। सः महान् प्रतापी तेजस्वी महापुरुषः अस्ति। ब्राह्मणत्वस्य प्राप्तेः पूर्वं सः अत्यन्तं पराक्रमी प्रजावत्सलः च नरेशः आसीत्। 

प्रजापतेः पुत्रः कुशः, कुशस्य पुत्रः कुशनाभः, कुशनाभस्य पुत्रः राजा गाधिः आसीत्। ते सर्वेपि शूरवीराः, पराक्रमिणः, धर्मपरायणाः च आसन्। विश्वामित्रः तस्यैव राज्ञः गाधेः पुत्रः अस्ति। 

एकदा राजा विश्वामित्रः स्वस्य सेनया सह ऋषेः वसिष्ठस्य आश्रमम् अगच्छत्। तदानीम् ऋषिः वसिष्ठः ध्याने निमग्नः सन् यज्ञं करोति स्म। विश्वामित्रः तं प्राणम्य तत्रैव उपाविशत्। यज्ञादिक्रियायाः निवृत्तः सन् ऋषिः वसिष्ठः राज्ञः विश्वामित्रस्य आदरसत्कारं कृत्वा तत्रैव आश्रमे अतिथिरूपेण स्थातुं तम् आग्रहम् अकरोत्।
  
तदा राजा विश्वामित्रः एवम् अचिन्तयत् यद् मया सह विशालसेना अस्ति, सेनया सह यदि अहम् ऋषेः वसिष्ठस्य आतिथ्यं स्वीकुर्यां तर्हि तस्य महत् कष्टं भवेत्। विश्वामित्रः नम्रतापूर्वकं ततः प्रस्थानाय ऋषिं वसिष्ठम् अनुमतिम् अयाचत, किन्तु वशिष्ठस्य अत्यधिकानुरोधकारणात् केषाञ्चन दिनानां कृते राजा विश्वामित्रः ऋषेः वसिष्ठस्य आतिथ्यं स्वीकर्तुं विवशः अभवत्। 

तत्पश्चात् ऋषिः वसिष्ठः राज्ञः विश्वामित्रस्य तथा तस्य सैनिकानां भोजनस्य सर्वप्रकारव्यवस्थायाः च कृते कामधेनोः आह्वानं कृत्वा तां प्रार्थयते स्म। 
 ऋषेः वसिष्ठस्य प्रार्थनां स्वीकृत्य कामधेनुः राज्ञः विश्वामित्रस्य तस्य सैनिकानां च कृते सर्वां व्यवस्थाम् अकरोत्। वसिष्ठस्य अतिथिसत्कारात् राजा विश्वामित्रः तस्य सैनिकाः च सर्वे अतीव प्रसन्नाः अभवन्। 
कामधेनोः चमत्कारं दृष्ट्वा कामधेनुं प्राप्तुं विश्वामित्रस्य मनसि इच्छा जागरिता अभवत्, ऋषिं वसिष्ठं च अवदत् हे ऋषिश्रेष्ठ! कामधेनुः तु कस्यापि वनवासिनः पार्श्वे न अपितु महाराजानां पार्श्वे हि शोभते। अतः भवान् एतां कामधेनुं मह्यं ददातु । तस्याः परिवर्ते अहं भवते सहस्रस्वर्णमुद्राः दास्यामि। 

राज्ञः विश्वामित्रस्य तद् वचनं श्रुत्वा ऋषिः वसिष्ठः अवदत् राजन्! एषा गौः मम जीवनम् अस्ति। अतः एतां कथञ्चिदपि कस्मै अपि अहं दातुं न शक्नुयाम्।

ऋषेः वसिष्ठस्य एवं प्रत्युत्तरं श्रुत्वा विश्वामित्रः बलात् तां गां ग्रहीतुं तस्य सैनिकेभ्यः आज्ञाम् अददात्। सैनिकाः तदा तां कामधेनुं दण्डेन प्रहारं कर्तुम् आरभन्त। कामधेनुः गौः तदा कुपिता भूत्वा बन्धनं त्रुटित्वा वसिष्ठस्य समीपं गत्वा विलापं कर्तुम् आरभत। ऋषिः वसिष्ठः अवदत् हे कामधेनो! इदानीमहं विश्वामित्राय शापमपि दातुं न शक्नोमि यतः अधुना सः मम अतिथिः अस्ति, अपिच तस्य विशाला सेना अपि अस्ति यस्मात् तेन सह युद्धे विजयं प्राप्तुं न शक्नुयाम्।
अहम् अत्यन्तं विवशः अस्मि।

 वसिष्ठस्य तादृशं वचनं श्रुत्वा कामधेनुः अवदत् हे ब्रह्मर्षे! किं कस्यापि ब्राह्मणस्य बलात् क्षत्रियस्य बलं कदापि श्रेष्ठतरं भवितुम् अर्हति? भवान् मह्यम् आज्ञां ददातु, अहं क्षणाभ्यन्तरे तं राजानं तस्य सेनां च नष्टं करिष्यामि। कमपि अन्यम् उपायं न दृष्ट्वा ऋषिः वसिष्ठः कामधेन्वै अनुमतिम् अददात्।

आज्ञां प्राप्य कामधेनुः योगबलेन पह्नव-सैनिकानां कस्याश्चित् सेनायाः उत्पन्नम् अकरोत्। सा सेना च विश्वामित्रस्य सेनया सह युद्धं कर्तुम् आरभत। विश्वामित्रः स्वपराक्रमेण समस्त-पह्नवसेनायाः विनाशम् अकरोत्। तदा कामधेनुः शकः, हूणः, बर्वरः, यवनः, काम्बोजः च इत्यादीनां सहस्र-सैनिकानाम् उत्पन्नम् अकरोत्। 
यदा विश्वामित्रः तेषां सैनिकानामपि वधम् अकरोत् तदा कामधेनुः मारकशस्त्रास्त्रैः युक्तानाम् अत्यन्तं पराक्रमियोद्धॄणाम् उत्पन्नम् अकरोत्। ते योद्धारः शीघ्रं हि राज्ञः विश्वामित्रस्य सेनां नाशयितुम् आरभन्त। 
*-प्रदीपः।*

No comments:

Post a Comment