*श्रीरामायणकथा, बालकाण्डम्!*
(सप्तदश-भागः)
पिनाकधनुषः कथा।
(द्वितीयः खण्डः)
तां कन्याम् अहं मम राजप्रासादम् अनयम्। तस्याः नाम सीता इत्यनेन नामकरणं कृत्वा तां मम पुत्रीवद् लालन-पालनम् अकरवम्। यदा सा किशोरावस्थां प्राप्नोत् तदा तस्याः सौन्दर्यस्य गुणानां च ख्यातिः सर्वत्र प्रसृता अभवत्। देश-विदेशानां राजकुमाराः तां विवाहं कर्तुं लालायिताः अभवन्। परन्तु अहं तस्याः विवाहं केनचिद् महता पराक्रमिणा योद्ध्रा सह कारयितुम् इच्छामि।
अतः अहं प्रतिज्ञाम् अकरवं यद् यः वीरराजकुमारः भगवतः शिवस्य धनुषि प्रत्यञ्चां बन्द्धुं शक्नुयात् सः सीतायाः पतिः भवेदिति।
मम प्रतिज्ञायाः सूचनां प्राप्य सहस्त्रशः राजकुमाराः महाराजाश्च निर्दिष्टे समये स्वबलं प्रदर्शयितुम् अत्र आगच्छन् किन्तु पिनाके प्रत्यञ्चास्थापनं तु दूरे तिष्ठतु, तं पिनाकं कश्चिदपि उन्नेतुं न अशक्नोत्।
यदा ते एवं प्रकारेण उद्देश्यं साधयितुं न अशक्नुवन् तदा निराशाः भूत्वा ते सर्वे मिलित्वा राज्ये उपद्रवं कर्तुम् आरभन्त। मम प्रदेशं वेष्टित्वा ते निरीहप्रजाः लुण्ठित्वा उपद्रवं कुर्वन्ति स्म। अहं मम सेनां नीत्वा तैः सह निरन्तरं युद्धम् अकरवम्। तेषु अनेके राजानः आसन्। तेषां पार्श्वे अपि बहवः सैनिकाः आसन्। अतः तस्मिन् युद्धे मम बहवः सैनिकाः अम्रियन्त। तदानीम् ईश्वरः एव मम सहायकः इति मत्वा तस्य तपस्याम् अकरवम्। मम तपस्यायां प्रसन्नः भूत्वा भगवान् मह्यं देवानां चतुरङ्गिणीसेनाम् अददात्।
सा सेना आततायिभिः राजभिः राजकुमारैः च सह घोरं युद्धं कृत्वा तान् सर्वान् अपासारयत्। तेषां गमनात् परम् अहम् अचिन्तयं यत् कञ्चन विशालं यज्ञं कृत्वा तस्मिन् अवसरे हि मम प्रतिज्ञां पूरयेयम् , सीतायाः च विवाहं कारयित्वा अहं निश्चिन्तः भवेयम्। तदर्थं हि अहम् एतस्य महतः यज्ञस्य आयोजनम् अकरवम्।
अतः हे राम! इदानीं यः कोपि राजकुमारः भगवतः शिवस्य धनुषि प्रत्यञ्चां बन्द्धुं शक्नुयात् तेन वीरपुरुषेण सह मम गुणवत्याः पुत्र्याः सीतायाः विवाहं कारयित्वा अहं निश्चिन्तः भवेयम्।
*-प्रदीपः!*
No comments:
Post a Comment