संस्कृतदिवसः
***********
(१)
या भाषा सुरसेविता सुरसिणी वेदात्मरूपा वरा
सर्वज्ञानप्रदायिनी मुनिजनामोदप्रदा सात्त्विकी।
प्राचीनापि नवा समाङ्गललिता तत्त्वस्वरूपा सदा
तस्मादद्य च संस्कृतस्य दिवसो देशे मुदा पाल्यते।।
(२)
वेदज्ञानमहोषधौ कृतधियः शिष्या उपाकर्मणि
संपूज्यापि गुरुं विनम्रहृदयाः शिक्षां रभन्तेद्य च।
सानन्दं परिपाल्यतेद्य दिवसः सर्वत्र वेदालये
ख्यातेयं सुतिथिर्विशेषसुखदा श्रेष्ठं ततो भारतम्।।
(व्रजकिशोरत्रिपाठी)
No comments:
Post a Comment