*मातापित्रोः सेवैव मोक्षः*
~~~~~~~~~~~
एकदा कश्चन नवयुवकः श्रीरामकृष्णपरमहंसस्य समीपं अगच्छत् । तत्र च गत्वा तं दीक्षाप्राप्त्यर्थं प्रार्थितवान् । तदा परमहंसः स्मित्वा तमपृच्छत्- किन्त्वं स्वस्मिन् गृहे एकलोऽसि? तव गृहे त्वदन्यः कोऽपि नास्ति। इति पृष्टे सति युवकेन उत्तरमदायि --महाराज! केवलैका वृद्धा माता अस्ति। तत्पुनः त्वं दीक्षां गृहीत्वा संन्यासी कथं भवितुमर्हसि ? तदा तेनोक्तम्- अहं संसारमिमं परिहाय मोक्षमिच्छामि। एतच्छ्रुत्वा परमहंसः तं महता प्रेम्णा प्रबोधयन् आह- प्रियवत्स! स्वीयां निराश्रयां वराकीं वृद्धां मातरं (वृद्धमातरं) परित्यज्य तव मोक्षस्य कल्पना अयुक्ता । अतः इतः गच्छ मनोयोगेन (मनः संलगय्य) च स्वमातुः सेवां कुरु । अनेनैव तव कल्याणम्। अनया सेवयैव तव मोक्षो भविष्यतीति।
*(डॉ नारायणदेवश्शात्री भरतपुरम्)*
18/07/2020
No comments:
Post a Comment