Wednesday, August 19, 2020

Sanskrit puzzle

किं ब्रह्मरूपं विपरीतबुद्धिः
कदा जनानां समुदेति लोके।
किंसंज्ञकः स्याच्च भियः प्रयोगे
भयस्य हेतुर्वद शब्दशास्त्रम्।।

अथ उत्तरं पठति- ध्रुवमपायेपादानम् इति।

१. ब्रह्मरूपं ध्रुवम् अस्ति। नित्यम् एकरूपमिति तदर्थः।
२. लोके अपाये नाम विनाशकाले जनानां विपरीतबुद्धिः समुदेति।
३. भियः भीधातोः प्रयोगे भयहेतुः अपादानं नाम अपादानसंज्ञकः भवति।
       रचयिता-हरेकृष्णः।

No comments:

Post a Comment