।। गदाबन्धः ।।
अद्य चैत्रमासे पूर्णिमायां तिथौ श्रीमतो हनूमतो जन्मदिवसमुपलक्ष्य तच्चरणारविन्दयोः मदीयभक्तिकुसुमाञ्जलिरूपेण समर्प्यतेऽयं "गदाबन्धः", प्रार्थ्यते च सोऽयं केशरिनन्दनो विश्ववासिनः करोनाख्यमहामारीतः उद्धरतु इति ।
विषविघ्नविनाशेन नरनन्दनकारक ! ।
कणीककीकसात्पाहि हितं हित्वाऽहितापदि ।। 1 ।।
दिव्यदिष्ट्या दिशः स्वामि ! मित्रमिच्छामि पावक ! ।
कपे ! कष्टे करोणाप ! पदपद्मे पदाञ्जलिः ।। 2 ।। (सोमनाथः)
बन्धेऽस्मिन् अनुष्टुभ् छन्दसा श्लोकद्वयं वर्तते तथा च नव (9) अक्षराणि श्लिष्टानि भवन्ति । गदायष्टेः अधोभागात् प्रतिकर्णिका-पार्श्वदलमनन्तरम् अक्षरद्वयंलिखितम् । गदाग्रभागे मध्यकर्णिकायाः चतुर्षु भागेषु चत्वारि अक्षराणि भवन्ति । तानि प्रतिविभागं दलत्रयेण साकं श्लिष्टानि सन्ति । तथैव कर्णिकाया बहिर्भागे दलानां सन्धिस्थलेषु त्रीणि अक्षराणि विद्यन्ते । एवमेव दण्डसन्धौ अक्षरद्वयं भवति ।
।। जय श्रीहनूमान् ।।
No comments:
Post a Comment