Wednesday, August 19, 2020

Compassion and patience- Sanskrit essay

*दया धर्मस्य मूलम्*
~~~~~~~~~
 एकदा महाराजो युधिष्ठिरो महर्षेः मार्कण्डेयस्य दर्शनार्थं तस्य समीपं गतवान्। तत्र गत्वा तेन महामुनिमपृच्छत्-हे महामुने! सर्वोत्तमः धर्मः सर्वोत्तमं ज्ञानं च किं अस्ति? तदा महर्षिः मार्कण्डेयः उदतरत्-- दया सर्वेषु महान् धर्मः अस्ति। क्षमा सर्वोत्तमं बलम्। सत्यं सर्वेषु उत्तमं व्रतम्। परमात्मतत्वस्य ज्ञानमेव सर्वोत्तमं ज्ञानं विद्यते।अन्ते मार्कण्डेयः युधिष्ठिरं कथयति -हे राजन्! भवान् सर्वान् प्राणिनः भगवत्स्वरूपं मत्वा तेषु दयां कुर्यात्।जितेन्द्रियो भवान् प्रजापालने तत्परो भूत्वा धर्मम्आचरेत्। यदि प्रमादवशात् त्वया केनापि सह अनुचितव्यवहारः कृतः स्यात् तर्हि तं स्व सद्व्यवहारेण सन्तुष्टं कुर्यात्। अहङ्कारः एव पतनस्य कारणं विद्यते अतः अहं सर्वेषां स्वामी अस्मि इति अहङ्कारस्य भावो मनसि कदापि न समुत्पद्येत।यो मानवः रागद्वेषौ परित्यज्य सर्वेषां कल्याणस्य कामनां करोति तस्य कल्याणं कर्तुं स्वयं प्रभुरपि तत्परो भवतीति।
 *(डॉ नारायणदेवश्शास्त्री भरतपुरम्)*
 07/08/2020

No comments:

Post a Comment