कार्तिकः : अद्वैत , शून्य वादयोः को भेदः ? 🤔🤔
रमण महोदयः : लड्डुक , पानीपूरीयोरिव ।
सुनीशः - लड्डुकं कुत्रास्ति 😋
सुप्रिया : पानीपूरी करणीयं वा
कार्तिकः - 🤦🏻♂🤦🏻♂🤦🏻♂ किं पृष्टवान् किमभवत् 🤦🏻♂🤦🏻♂🤦🏻♂
श्रीनीतः - रमणोक्तं सत्यमेव ।
कार्तिकः -- 😱 कथम् ?
श्रीनीतः - श्रृति प्रमाणमस्ति।
कार्तिकः - 🥶
श्रीनीतः - पूर्णमदः पूर्णमिदं ------
कार्तिकः - 🤦🏻♂🤦🏻♂🤦🏻♂🤦🏻♂
श्रीनीतः - 🤔🤔 प्रयोग रुपेण वक्तव्यम् ।
( सुनीश महोदयस्य हस्तात् लड्डुकं बलात् स्वीकरोति।)
सुनीशः - मम लड्डुकं 😭😭😭 मम लड्डुकं गतम् । अस्तु भगिनी पानीपूरीमानय ।
सुप्रिया - स्वीकरोतु।
सुनीशः - 😋😋😋 धन्यवादः 😋😋😋
श्रीनीतः - लड्डुकमेकम् पूर्णम्।
लड्डुकं भग्नं कृत्वा पुनः लड्डुकद्वयं करोति।
वदति।
तत् लड्डुकं पूर्णम् । एतत् लड्डुकमपि पूर्णम्। ( पूर्णमदः पूर्णमिदम् )
प्रथमपूर्णलड्डुकात् तदनंतर पूर्णलड्डुके आगतौ । ( पूर्णात् पूर्णमुदच्यते )
लड्डुकद्वयानंतरमपि पुनः लड्डुकं भवति रिक्त पिष्ठेन (पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। )
कार्तिकः - तर्हि पानीपूरी किमर्थं ?
सुनीशः - मम बुभुक्षा परिहरणार्थम्
रमणः - 😃😃 न।
श्रीनीतः - पानीपूरी अपि बलात् स्वीकरोति।
सुनीशः - 😰
श्रीनीतः - पानीपूरीमपि भग्नं करोति।
सुनीशः - हृदयवेदना। 😡😡
सुप्रिया : 🍫🍫🍫 दादाति
सुनीशः - 😋😋😋
श्रीनीतः - पश्यतु भग्न पानीपूरी द्वारा किमपि पदार्थः न आगतः । एवमेव शून्यवादमपि। मरणानंतरं किमपि न भवतीति वदन्ति।
रमणः - अवगतं वा ?
कार्तिकः - पानीपूरी लड्डुकवेदांतिने नमः ।
No comments:
Post a Comment