Wednesday, May 1, 2019

Gujarat-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
💐मङ्गलवासरः चैत्रशुद्धचतुर्थी (09-04-19)🌻
✍प्रस्तावविषयः-- गुर्जरप्रदेशः🌺

भारतदेशः विशालदेशः। भारते २९ राज्यानि सन्ति गुर्जरप्रदेशः अथवा गुजरात् राज्यं तेषु अन्यतमम्। भारतस्य पश्चिमे भागे विद्यते गुर्जरप्रदेशः। सौराष्ट्रम् इति पौराणिकं नाम। अस्मिन् विशाले राज्ये अनेकानि पौराणिकमन्दिराणि सन्ति। प्रथमं ज्योतिर्लिङ्गमन्दिरं सोमनाथमन्दिरम् द्वारकाधीशमन्दिरम् नागेश-ज्योतिर्लिङ्गमन्दिरम् इत्यादीनि तेषु मुख्यानि। विशालैः समुद्रतटैः भूषितं राज्यमिदम्। गुर्जरप्रदेशस्य जनाः सहृदयाः अतिथिसेवातत्पराश्च।। 

कृषि -वाणिज्य-व्यवसायकार्येषु गुर्जरप्रदेशः इतरराज्यानाम् अपेक्षया अग्रे अस्ति। वस्त्राणां निर्माणे गुर्जरप्रदेशः भारते प्रमुखः। वज्रव्यापारे गुजरात् राज्यस्य सूरत् विश्वविख्यातः। 
राजधानी - गान्धिनगरम् अस्ति। महात्मागान्धी सर्दार् वल्लभायिपट्टेल् मोरारजी देसाई विक्रम साराभाई नरेन्द्र मोदी इत्यादयः नैकानां महापुरुषाणां जन्मस्थानं गुर्जरप्रदेशः। गीर् इत्याख्ये वने सिंहानां सानिध्यं वर्तते। एताभ्यां कारणाभ्यां स्यात् 
गुजरात् राज्यम् "Land of the Lions and Legends" इति प्रसिद्धं जातम्।। 

गुर्जरप्रदेशस्य अन्याः च केचन विशेषताः - 

- भगवतः श्रीकृष्णस्य गृहस्थाश्रमस्थानम्। 

- जनाः भोजनप्रियाः मुख्यतया शाकाहारिणः एव अधिकाः। 

- 1215 km. विस्तृतं समुद्रतटम्। 

- वाणिज्ये निपुणाः गुर्जरवासिनः विश्वे प्रायः सर्वेषु देशेषु वाणिज्यकार्ये संलग्नाः सन्ति। 
- गुर्जरप्रदेशे विस्तृतमरुभूमिः वर्तते। 
- मद्यवर्जितप्रदेशः। 
- विश्वस्य अत्युन्नता प्रतिमा (statue of unity) अत्रैव। 
- अनेकानि हैन्दव-जैनमन्दिराणि सन्ति। 
- आधिक्येन कार्पासस्य उत्पादनं वर्तते। 
- भारतस्य धनिकानां नगरं सूरत्। 

एवं प्रकारेण प्राचीनदृष्ट्या आधुनिकदृष्ट्या च गुर्जरप्रदेशः प्रमुखं स्थानं वर्तते।। 



~ सुनीश् नम्बूतिरि 

जालपुटम् - https://suravaniblog.wordpress.com

No comments:

Post a Comment