Wednesday, April 10, 2019

How to do dhana as per veda - Sanskrit

Courtesy:Sri.Ramesh Deshpande

Iॐ श्रीगुरुभ्यो नमः।
I वन्दे संस्कृतमातरम् I

श्रद्धया देयम् । अश्रद्धयाऽदेयम् । 
श्रिया देयम् । ह्रिया देयम् । 
भिया देयम् । संविदा देयम् ॥ - तैत्तिरीयोपनिषत् १-११

श्रद्धया देयम्, अश्रद्धया न देयम्; सम्पदानुगुण्येन देयम्, 
ह्रिया देयम्, भयेन देयम् । ज्ञात्वा एव देयम् ॥

वेदेषु यज्ञदानतपांसि विहितानि सन्ति । 
गृहस्थैः अवश्यम् एतानि अनुष्ठेयान्येव । 
प्रकृतमन्त्रे दानस्य विचारः क्रियते । 
श्रद्धया दानं कर्तव्यम् । 
गुरुशास्त्रवाक्येषु विश्वासः श्रद्धा शास्त्रीयेषु कर्मसु श्रद्धा एव प्रधानम् । 
अतः श्रद्धयैव हि शास्त्रीयाणि कर्माणि कर्तव्यानि ॥

दानम् अश्रद्धया कृतं चेत् भस्मनि हुतं हविरिव व्यर्थं भवति । 
अतः अश्रद्धया दानं न कर्तव्यम् । 
सम्पदम् अनुसृत्य देयम् । श्रीमता अधिकमेव देयम् । 
दरिद्रेण तु स्वसामर्थ्यानुगुण्येन दातव्यम् । 
सङ्कोचस्वभावेन भयभक्त्या देयम् ।

दानेन सर्वपापक्षयः, दानेन सर्वकामावाप्तिः । 
अश्रद्धया हुतं दत्तं तपस्तप्तं चेत् सर्वं तत् निष्फलमेव भवति । 
अतः श्रद्धयैव दानं कर्तव्यम् ॥

No comments:

Post a Comment