केनचिद्विशिष्टाद्वैतिना प्रबन्धोऽयं स्थापितः स्वीयजालपुटे
------------------------------------------
*शङ्कास्ते शांकरे मते।*
अपायास्तु तमः पुंसां अनपाय प्रभान्वितः ।
अहीन्द्र नगरे नित्यं उदितोऽयमहस्करः ।।
अत्र काचित् शङ्काः सन्त्यैव भगवत्पादानं मतं किमिति । केचिद्वदन्ति स शैवो, शाक्तो, षण्मतस्थापको वा इति । इदानीं निरूपयन्ति एक एव ईश्वरः शांकरे मते नारायणो सर्वस्मात्परः इति । प्रारभ्यते भाष्यं "स आदिकर्ता नारायणाख्यो" इत्युक्त्वा उपोद्घाते भगवत्पादाः । एकमेव तत्त्वं शांकराद्वैतमते । तथाऽपि अद्वैतज्ञानमत्र अन्तःकरणशुद्धिपूर्वकम् इति निरूपितत्वात् शांकरेऽपि मते भक्तिः आवश्यकमिति स्फुठीकृतम् । तज्ज्ञानमपि ईश्वरस्य एकस्यैव उपादानेन ईश्वरप्रसादात् लभते । यथोक्तं गीताभाष्ये "तं प्रहास्यसि ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्तेः इति अभिप्रायः" इति । स भगवान् ईश्वरो अवरब्रह्मं को इति शङ्कायाः उत्तरं ईश्वर लिङ्गवर्णन मुखेन उत्तरत्र निरूपयति ।
कारुणिको भगवान् यद्वा अन्यथा इति प्रश्नस्योत्तरमुक्तं पञ्चमेऽध्याये ननु स परमोपकारीति । प्रत्युपकार निरपेक्षतया उपकारिणं सर्वभूतानां हृदयेशं सर्व-कर्म-फलाध्यक्षं सर्व-प्रत्यय-साक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्व-संसारोपरतिं ऋच्छति प्राप्नोतीति भाष्ये । प्राङ्निरूपितस्य ईश्वरस्य प्रपदनं तथा प्रपदनविरोधीनां लक्षणं च वदति उत्तरत्र सप्तमेऽध्याये न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते इति । अपि च ईश्वरप्रपदनशीलिनां वैशेष्यं तत्रैवोक्तम् भवति "सर्वात्मानं मां नारायणं प्रतिपद्यते स महात्मा" इति । तच्छेषं तद्भक्तेः रूपं वदति मां च ईश्वरं नारायणं सर्व-भूत-हृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचित् यो व्यभिचरति भक्ति योगेन भजनं भक्तिः सैव सेवते स गुणान् समतीत्य एतान् यथोक्तानिति चतुर्दशेऽध्याये ।
अपि च नारायणस्यैव भजन रूपेण उत्तरत्र नारायणशब्देन ईश्वर शब्दव्याक्यां करोति "ममैव परमं आत्मनो नारायणस्य", "विवेकिनः मां चैव तत्कर्मबुद्धिसाक्षिभूतं अन्तः शरीरस्थं नारायणं कार्शयन्तः" इत्यादिषु । व्यावहारिक एव सत्ता तस्येश्वरस्य अयं निर्विशेषाद्वैतमते । निर्विशेषस्य निर्गुणस्य ब्रह्मणो अवररूपभूतस्य सगुणत्वात् तस्य विभूतयः ईदृगवस्थिताः इति विषयीकृत्य तान् विवृणोति पुरुषोत्तमविद्याविवरणे भाष्ये । "भगवत ईश्वरस्य नारायणाख्यस्य विभूति-संक्षेप उक्तो विशिष्टोपाधिकृतो यदादित्यगतं तेजः इत्यादिना" इति शांकरं भाष्यम् । गुणभूतोऽपि ईश्वरो न किञ्चित् कर्तुमर्हतीति वा एकस्यैवात्मनो सत्यत्वात् स्वतःसिद्धस्य ईश्वरस्य किं कार्यं भवति यथोक्तं कारिकासु "आप्तकामस्य का स्पृहे"त्यादयः इति प्रश्नस्योत्तरञ्च उक्तमत्रैव "ईश्वरः सर्वज्ञो नारायणाख्य ईशन शील" इति ।
परं अन्यत्र भाष्ये उक्तत्वात् "पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति", "यज्ञो वै विष्णुः इति श्रुतेः यज्ञ ईश्वरः", "दैवी देवस्य ममेश्वरस्य विष्णोः स्वभावभूता", "ज्ञानी विष्णोः तत्त्ववित् च हे भरतऋषभ", "च मां एव परमेश्वरं विष्णुं स्मरन्", तद्धा स्थानं परमं प्रकृष्टं मम विष्णोः परमं पदं इत्यर्थः", "हे विष्णो व्यापन शील" इत्यादयः विष्णोः आकाशवत् सर्वव्याप्यस्य तत्त्वस्य ब्रह्मणो अन्योपाधिरूपस्यैव ईश्वरत्वं सिद्धं तथा धामादयः शब्दाः लक्षणया ब्रह्मत्वं उपदिशन्तीतिचेन्न । बाढमयं विष्णुशब्दस्य प्रयोगः व्यापनशील इत्यर्थे । यद्वा एक एव विष्णुः व्यापनशीलो ईश्वरः तं त्रिधाविभज्य स्थितः । तत्र नारायण इति रूपस्य पालन रूपेण तस्यैव औपचारिकं ईश्वरत्वमुक्तमिति चेत् "स आदिकर्ता नारायणाख्यः" तथा "ईदृगीश्वरो नारायणाख्यः" इत्यादीनामपि विरुद्धत्वात् अनुपपन्नम् । यद्वा नारायणशब्दः अन्यानां देवतानामपि सूचयितुं शक्यमिति चेन्न । रूढ्यर्थस्यैव णकारो अन्यत्रन नकारः सन्धिषु इति पाणिनि वचनात् तदप्यसंगतम् । यद्वा उक्तत्वात् कालिका पुराणादिषु "नारायणि नमोऽस्तुते" इत्यादयः दुर्गायाः नारायणी शब्दवाच्यत्वं तथा प्रमशेवेत्याख्यातस्य रुद्रस्य नारायणशब्दवाच्यत्वमिति चेत् पुरुष सम्बन्धादेव स्त्रीणां नामकरणमिति वै न्याय्यम् । अन्यथा यथोक्तं युष्माभिः इति चेत् सर्वाणां राजानां राजमहिष इति मृगवैशेष्यमेव सम्भवति महाराज्ञीनां राजमहिषिशब्दवाच्यत्वात् । तस्मात् प्रयोगादन्यत्र नारायण शब्दस्य रूढ्यर्थस्य वाचकस्य विष्णुशब्दस्तु विशेषणरूपो भवत्यत्र सर्वशाखा-प्रत्यय-न्यायात् ।
उक्तं च भगवता व्यासेन भारते "इतिहास पुराणाभ्यां वेदं समुपबृंहये"दिति । तस्मात् नारायण शब्दस्यापि निरुक्तिः श्रुति-स्मृति-इतिहास-सात्त्विकेषु पुराणेषु उक्त रूपे भवेत् । "एकोहवै नारायणा आसीत्", "अधो न क्षीयते जातु यस्मात् तस्मादधोक्षजः । नराणां अयनाच्छापि तेन नारायणः स्मृतः ।।", "आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।।", "तास्ववात्सीत् स्व सृष्टासु सहस्रं परिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्भवाः ।।" इति महोपनिषदि, भारते, मनुस्मृतौ, निगमकल्पतरोः फले च । उपबृंहितत्वात् सर्वत्र एकस्यैव ईश्वरस्य नारायणस्य भाष्यप्रयोगमपि तथैव भवेद्यदि भाष्यः वेदान्त सम्मतः । कलुषधिया अन्यथा अवस्थिता अर्थाः सर्वात्मना श्रुति विरुद्धानि नान्यथा । बाढमिदं निरूपणम् ।
सत्यं सत्यं पुनः सत्यं उद्धृत्य भुजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ।।
--- *श्रीराम वेळामुर।*
No comments:
Post a Comment