Tuesday, October 30, 2018

Beggar - Sanskrit simile

भिक्षुपादप्रसारन्यायः ।
-----------------------------------


कश्चन भिक्षुकः आसीत् । तस्य स्वगृहं न असीत् । शैत्येन कम्पमानं तं दृष्ट्वा कश्चन दयालुः पुरुषः दीनानुकम्पया तं भिक्षुकं स्वगृहं आनीय शयनार्थं स्थलं दत्तवान् । कालान्तरे सः भिक्षुकः यस्य वशे स्वस्य पादप्रसाराय अपि स्थलं नासीत् तत् गृहं पूर्णतया स्व अधीनं कृतवान् । गृहस्य स्वामिनं ततः निष्कासितवान् च । अन्यस्य साहाय्यं स्वीकृत्य तस्मै कष्टं प्रत्यर्पयति  अथवा अस्मत् साहाय्यं स्वीकृत्य कश्चन अस्मभ्यं कष्टं प्रत्यर्पयति चेद् तादृशे प्रसङ्गे भिक्षुपादप्रसार न्यायस्य उद्धरणं भवति ।

No comments:

Post a Comment