क्रथनकस्य कथा
कस्मिंश्चित् वने मदोत्कटः नाम सिंहः वसति स्म । गजः, शृगालः, काकः च तस्य अनुचराः आसन् ।
एकदा क्रथनकः नाम उष्ट्रः तत् वनम् आगतवान् । तं दृष्ट्वा सिंहस्य अनुचराः उक्तवन्तः "प्रभो ! तम् उष्ट्रं मारयतु । तस्य मांसं खादामः" इति ।
सिंहः उक्तवान् - "तथा न करणीयम् । सः अस्माकं अतिथिः" इति । सः उष्ट्रं समीपम् आहूय उक्तवान् - "भोः ! भवान् कुतः आगतवान् ?" इति । क्रथनकः उक्तवान् -"अहं समीपग्रामतः आगतवान्" इति। "भवान् पुनः ग्रामं मा गच्छतु । अत्र एव निर्भयेन वसतु" इति सिंहः तम् उक्तवान् । क्रथनकः तद्नुसारं वने निर्भयेन वसति स्म ।
एकदा सिंहस्य अनारोग्यम् अभवत् । निःशक्त्या सः चलितुम् अपि असमर्थः । अतः सः अनुचरान् उक्तवान् -"भोः ! कमपि मृगम् आनयन्तु । तं मारयित्वा तस्य मांसं खादामः" इति । अनुचराः बहु अन्वेषणं कृतवन्तः । परन्तु कोऽपि मृगः न लब्धः । ते चिन्तितवन्तः 'कथञ्चित् एषः उष्ट्रः मारणीयः' इति । अनन्तरं शृगालः सिंहस्य समीपम् आगत्य उक्तवान् - "प्रभो । अन्यः मृगः न लब्धः । क्रथनकम् एव मारयामः वा ?" इति ।
सिंहः क्रोधेन उक्तवान् - "मूर्ख ! पुनः एवं मा वदतु । अहं क्रथनकस्य अभयदानं दत्तवान् अस्मि । सः न मारणीयः" इति ।
"अभयदानं दत्त्वा पुनः तस्य मारणं चेत् दोषः एव । परन्तु सः एव यदि स्वामिकार्यार्थम् आत्मार्पणं कर्तुम् इच्छति तर्हि तस्य मारणे दोषः नास्ति एव" इति शृगालः उक्तवान् । "तर्हि यथा रोचते तथा करोतु" इति सिंहः उक्तवान् ।
तदनन्तरं ते सर्वे अनुचराः क्रथनकेन सह पुनः सिंहस्य समीपम् आगतवन्तः । काकः सिंहम् उक्तवान् - "प्रभो ! आहारार्थ कोऽपि मृगः न लब्धः। अतः भवान् मां खादित्वा स्वप्राणान् रक्षतु । तेन मम अपि स्वर्गप्राप्तिः भविष्यति" इति । तदा शृगालः "भोः काक ! भवतः शरीरे अत्यल्पं मांसम् अस्ति । तत् महाराजाय पर्याप्तं न भवति" इति उक्त्वा सिंहम् उक्तवान् - "प्रभो ! माम् एव खादतु" इति । तदा गजः उक्तवान् - "भवतः शरीरम् अपि अल्पम् एव । तदपि महाराजाय पर्याप्तं न भवति । अतः महाराजः माम् एव खादतु । अहं स्वामिकार्यार्थ प्राणार्पणं करोमि । मम स्वर्गप्राप्तिः भवतु" इति।
एतत् सर्वं श्रुत्वा क्रथनकः 'सर्वे अपि 'मां खादतु, मां खादतु' इति सिंहं विज्ञापितवन्तः । परन्तु सिंहः कमपि न खादितवान् । अतः अहमपि तथा विज्ञापयामि। सिंहः माम्
अपि न खादति' इति चिन्तयित्वा उक्तवान् - "प्रभो ! गजस्य मांसं खादितुं बहु कष्टं भवति । तत् जीर्णम् अपि न भवति । अतः मां खादतु" इति । क्रथनकस्य वाक्यसमाप्तितः पूर्वमेव ते अनुचराः तस्य उपरि आक्रमणं कृतवन्तः । तं मारितवन्तः । सन्तोषेण मांसं खादितवन्तः च ।
"The Story of Krathanaka"
In a certain forest, there lived a lion named Madotkata. An elephant, a jackal, and a crow were his attendants.
One day, a camel named Krathanaka entered the forest. Seeing him, the lion's attendants said, "Lord! Let us kill this camel and eat his flesh."
The lion said, "That should not be done. He is our guest." Then he called the camel and asked, "Friend! From where have you come?"
Krathanaka replied, "I have come from the nearby village."
The lion said, "Do not go back to the village. Stay here fearlessly."
So Krathanaka stayed in the forest without fear.
One day, the lion fell ill. He was so weak that he couldn't even move. So he told his attendants, "Friends! Bring some animal. We will kill and eat it."
They searched a lot but couldn't find any animal. Then they thought, "Somehow, this camel should be killed."
Later, the jackal came to the lion and said, "Lord, no other animal is found. Shall we kill Krathanaka instead?"
The lion angrily replied, "Fool! Don't speak like that again. I have given him protection. He must not be killed."
The jackal said, "If someone is killed even after being promised protection, it is wrong. But if he himself is willing to sacrifice his life for his master, then there is no fault in killing him."
The lion said, "Then do as you wish."
Then all the attendants came to the lion along with Krathanaka.
The crow said, "Lord, no animal could be found. So, please eat me and save your life. By this, I will also attain heaven."
The jackal replied, "O crow! Your body has very little flesh. That won't be sufficient for our king."
Then he said to the lion, "Lord, please eat me instead."
Then the elephant said, "Your body is also small. It will not suffice for the king. So let the king eat me. I offer my life for my master and may I attain heaven."
Hearing all this, Krathanaka thought, "Everyone is saying 'Eat me! Eat me!' to the lion. But the lion is not eating anyone. So I too shall say the same, and the lion will not eat me either."
He said, "Lord! It is very difficult to eat elephant's meat. It is not even digestible. So, please eat me instead."
Even before he finished speaking, the attendants attacked him, killed him, and ate his flesh with satisfaction.