|| *ॐ* ||
" *वन्दे संस्कृतमातरम्* "
" *लौकिकन्यायकोशः* " ( १२६ )
" *मत्स्यकण्टकन्यायः* "
मत्स्यग्राहकः सकण्टमेव मत्स्यं गृहीत्वा तदनन्तरं मत्स्यं स्वीकरोति कण्टकं च परिहरति । एवं तत्त्वमसि --- इत्यस्य महावाक्यस्य लक्षार्थस्य ग्रहणसमये अपि आदौ तस्य उपाधीनाम् अपि ग्रहणं क्रियते परन्तु भागलक्षणया विरुद्धांशस्य परित्यागः क्रियते लक्ष्यार्थस्य च ग्रहणं क्रियते । तस्यापत्यम् इत्यस्य पाणिनीयसूत्रस्य ( ४-१-९३ ) भाष्ये अयं न्यायः प्रयुक्तः ।
*यथा*--- कश्चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् स यावत् आदेयं तावत् आदाय शकलकण्टकान् उत्सृजति ।
*卐卐ॐॐ卐卐*
डाॅ . वर्षा प्रकाश टोणगांवकर
पुणे / महाराष्ट्रम्
🐘🐘
No comments:
Post a Comment