Courtesy:Dr.Smt.Balaa Chiraavoori
भगिनी हस्तभोजनम्:-
भगिनी इत्युक्ते अग्रजा वा अनुजा वा स्यात्।भगिन्याः हस्तात् परिवेषितभोजनमिति। कार्तिकशुक्लद्वितीयायां एतत् पर्व सम्भवति। यमराजः सोदर्याः यमुनायाः गेहं गत्वा भोजनं कृतवान्, तां वस्त्रभूषणादीन् प्रदत्तवानिति कारणेन अस्य पर्वस्य नाम यमद्वितीया( भ्रातृद्वितीया) इति अत्रैव न त्रिषु लोकेष्वपि प्रसिद्ध इति श्रीकृष्णः सत्यभामां प्रति पद्मपुराणे अकथयत्।
तत्रैव कार्तिकमासद्वितीया "याम्यका" इत्यपि अभिधीयते इति श्रीकृष्णः अकथयत्।
कार्तिके द्वितीयायां पूर्वाह्णे एव स्नात्वा यमं अर्चयेत्। तेन नरकलोकं न प्राप्स्यामः ।संवत्सरकालपर्यन्तमपि यमधर्मराजः पापिनां प्रति तेषां पूर्वकर्मानुसारं शिक्षावलिः रचयति। तमनुसृत्य भटाः तान् शिक्षयन्ति।अतः नरकलोकवासिनां कृते विश्रान्तिर्नास्ति। किन्तु कार्तिकशुद्धद्वितीयायां यमराट् स्वभगिन्याः गेहं प्रति अत्यन्तप्रीत्या याति। तदर्धं अयं दिवसः नरकलोकवासिनां कृते विरामदिवसः। अस्मिन् दिवसे नरकलोकवासिनां उद्दिश्य तर्पयामश्चेत् ते पापेभ्यः, सर्वबन्धनाच्च विमुक्ताः भवेयुः। तस्मिन् दिवसे नरकलोके स्थिताः सर्वे सन्तष्ठाः भवेयुः। यमराष्ट्रे महोत्सवं विधाय सर्वे सुखमाप्नुवन्ति। अतः यमद्वितीया त्रिषु लोकेष्वपि प्रसिद्धः। तस्मात् स्वगृहे न भोक्तव्यम्। स्नेहात् प्रीत्या च भगिनी हस्तात् भुज्यते चेत् अयुर्वृद्धिः शरीरपुष्ठिवर्धनं च भवेत्। भगिनीभ्यःपुजासत्काराणि विधाय स्वर्णालंकारवस्त्राणि दातव्यानि। तेन संवत्सरकालं यावत् कलहः ,शत्रुभयश्च न जायते।
*महिषासनमारूढो* *दण्डमुद्गरभृत्प्रभुः।*
*वेष्टितःकिङ्करैर्जुष्टैःतस्मै* *याम्याय* *ते नमः।।*
- पद्मपुराणे उत्तरखण्डे 124अध्यायः
तस्मिन् दिने सर्वाः भगिन्यः संपूज्याः भवेयुः। यदि सहोदरी नास्ति चेत् अङगीकृतभगिनीं प्रपूजयेत्।
अत्र मया विचारितं यत् नरकवासिनः सन्तुष्ठाः भवन्ति चेत् अस्माकं श्रेयस्करमिति , इहलोके सम्बन्धः दृढतरो भवेदिति विचिन्त्य एव महर्षिभिः अनेन प्रकारेण विधीयते इति।
यस्यां तिथौ यमुनया यमराजदेवः संभोजितःप्रतितिथौ स्वसृसौहृदेन।
तस्यां स्वसृः करतलादिहयो भुनक्ति
प्राप्नोति वित्तशुभसंपदमुत्तमां सः।।
-बाला...🙏✍️
No comments:
Post a Comment