Courtesy: Sri. Anantha Kalyana Krishnan
अगणितगुणयुक्तं सन्ततं ध्यानमग्नं यतिकुलनृपसिंहं चन्द्रमौलीशभक्तम्। नतजनशुभहेतुं शारदाप्रीतिपात्रं परमगुरुदयालुं भारतीतीर्थमीडे॥
( मालिनी)
सकलागमशास्त्रपण्डिताद्रिं
जगदानन्दकरं गुरुं यतीन्द्रम्। विधुशेखरभारतीं भजामो
हृदिनित्यं गुरुभक्तिवर्धनार्थम्॥
( वसन्तमालिका)
No comments:
Post a Comment