||ॐ||
''गुरोः महत्त्वम्''{ बोधकथा }
एकाधेनुः तृणं चरणाय वनं अगच्छत् | सन्ध्यासमये तस्या ध्यानं आगता एकोव्याघ्रः शनै-शनै तस्या समीपम् आगतम्| भीत्वा सा अत्र-तत्र पलायनम् आरब्धम् | व्याघ्रोऽपि तस्या पृष्ठतः धावनम् आरब्धम् | प्रधावती धेनुः एकतडागस्य समीपम् आगतवती | भीता गौ तस्मिन तडागे प्राविशत्| व्याघ्रोऽपि तस्या अनुसृत्या तडागं प्राविशत् | तदा तौ ज्ञातरौः तडागं गभीरं नास्ति तथा च जलोऽपि न्यूनं, किन्तु तडागपङ्किलपूर्णम् अस्ति | तयोर्मध्ये अल्पान्तरम् | किन्तु तौ द्वौऽपि असाह्यौ | धेनु तस्मिन पङ्के शनै-शनै निमज्जनं जातम्| व्याघ्र तस्या समीपे आसीत् किन्तु सोऽपि निमज्जनम् | द्वौपि कण्ठौ पर्यन्त निमज्जौ किन्तु विसञ्चरितुम् असमर्थौ | किञ्चितकालानन्तरं धेन्वा व्याघ्रम् अपृच्छत्- भवतः कोपि स्वामी अथवा गुरोस्ति वा ? व्याघ्र कोपेन अवदत् अहमेव अस्यारण्यस्य राजा खलु ? मम कोपि स्वामी नास्ति | गौ तम् अवदत् किन्तु अस्मिन्नक्षणे तव शक्ति व्यर्थास्ति | व्याघ्र ताम् अवदत्—तव अवस्था अपि ममसादृश्यं तर्हि? तदा गौ हसित्वा उक्तवती—न न मम स्वामी सन्ध्यासमयं द्रक्ष्यति यद अद्यापपर्यन्तं अहं न प्रत्यागतवती |तदा स मम अन्वेषणार्थं निश्चयेन आगमिष्यति | तथा च एतस्मात् कर्दमात् मुञ्च्ययित्वा माम नेष्यति |
किञ्चितकालानन्तरम् एकमनुष्य आगता तथा च कर्दमात् धेनुं बहिमुञ्च्ययित्वा गृहं नीतवान च | गमनसमये धेनु तथा च स्वामी परस्परौ कृतज्ञतापूर्वकम् अपश्यताम् |उभौ मनसोः व्याघ्रस्य कृते सहानुभूति किन्तु तौ व्याघ्रं मुञ्चनाय न ऐच्छत | तयोः जीवनाय अपायम् अस्ति | एषा कथा अस्मान् किं बोधयति ? गौः समर्पित हृदयस्य प्रतिकं | व्याघ्रः अस्माकम् अहङ्कारी मन | स्वामी ईश्वरस्य प्रतिकं तथा च कर्दम अस्मिन् संसारम् | सङ्घर्षम् अस्तित्वस्य युद्धम् अस्ति |
कस्योपरि निर्भरता न उत्तमं किन्तु अहमेव श्रेष्ठ माम कस्यापि / केनापि साहाय्यस्य आवश्यकता नास्ति, एतादृशी अहङ्कार विनाशाय कारणं भविष्यति | सत्यं वा ?
ॐॐॐॐॐॐ
डॉ. वर्षा प्रकाश टोणगांवकर
पुणे / महाराष्ट्रम्
---------------------------------------
🐯🐯🐂🐂
No comments:
Post a Comment