*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(नवमः सर्गः)
हनुमद्द्वारा सीतायै मुद्रिकाप्रदानम्।
(द्वितीयः खण्डः)
अहं वास्तवेन श्रीरामस्य दूतः अस्मि। सः वने वने भवत्याः वियोगात् दुःखितः भूत्वा भवतीम् अन्विष्यति। अहं पुनः वदामि यद् भरतस्य भ्राता श्रीरामचन्द्रः मया भवत्यै कुशलवार्ताम् अप्रेषयत्, शत्रुघ्नस्य सहोदरः भ्राता लक्ष्मणः भवत्याः कृते अभिवादनम् अकरोत्। अस्माकं सर्वेषां कृते अयं महतः आनन्दस्य विषयः यद् भवती राक्षसराजस्य बन्धने बद्धा भूत्वा अपि जीविता अस्ति। अधुना तद् दिनं दूरे नास्ति यद् भवती पराक्रमिणं रामं लक्ष्मणं च सुग्रीवस्य असङ्ख्यवानरसेनया सह लङ्कायां द्रष्टुं शक्ष्यति।
वानराणां स्वामी सुग्रीवः रामचन्द्रस्य परममित्रम् अस्ति। अहं तस्यैव मन्त्री हनुमान् अस्मि, न तु रावणः, न वा तस्य गुप्तचरः, यथा भवती अवगच्छति।
रावणः यदा भवतीम् अपहृत्य आनयति स्म तदा भवती अस्मान् दृष्ट्वा यद् वस्त्राभूषणं भूमौ अपातयत्, तद् वस्त्राभूषणं सर्वम् अहमेव संगृह्य अस्थापयम् , अपिच अहमेव तत् सर्वं राघवाय अददाम्। तत् सर्वं वस्त्राभूषणं दृष्ट्वा रामचन्द्रः वेदनया व्याकुलः सन् विलापम् अकरोत्। इदानीमपि सः भवतीं विना उद्विग्नः उन्मत्तः च भूत्वा वने वने भ्रमति। अहं तस्य दुःखस्य वर्णनं कर्तुं न शक्नोमि।
हनुमतः तद् विस्तृतं वर्णनं श्रुत्वा जानक्याः सन्देहः किञ्चिद् न्यूनः अभवत्, परन्तु तदानीमपि हनुमति पूर्णरूपेण विश्वासः न भवति स्म। सा अवदत् हनुमन्! तव वचनं श्रुत्वा अहं कदाचित् चिन्तयामि यत् त्वं सत्यं वदसि। अहं त्वयि विश्वासं कुर्याम्। परन्तु मायाविनः रावणस्य कपटं दृष्ट्वा पूर्णरूपेण अहम् आश्वस्ता नास्मि। किं केनापि प्रकारेण त्वं मम सन्देहं दूरीकर्तुं शक्ष्यसि?
सीतायाः तर्कपूर्णं वचनं श्रुत्वा हनुमान् अब्रवीत् हे महाभागे! मायाविनाम् अस्मिन् कपटपूर्णे वातावरणे स्थित्वा भवत्याः हृदयं शङ्कितम् अभवत्, अतः तदर्थम् अहं भवत्यै दोषं दातुं न शक्नोमि। परन्तु अहं वास्तवेन श्रीरामस्य दूतः अस्मि इति भवत्यै अकाट्यं प्रमाणं ददामि। रघुनाथः अपि तथैव अचिन्तयत् यत् सम्भवतः भवती मयि विश्वासं न कुर्यात् अतः सः मह्यं स्वीयां मुद्रिकाम् अददात्। भवती एताम् अवश्यम् अभिज्ञास्यति। एवं कथयन् वीरः हनुमान् श्रीरामेण प्रदत्तां मुद्रिकां सीतायै अददात् यस्यां श्रीरामस्य नाम अङ्कितम् आसीत्।
*-प्रदीपः।*
No comments:
Post a Comment