*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(अष्टमः सर्गः)
सीतया सह हनुमतः मेलनम्।
(द्वितीयः खण्डः)
सुग्रीवः लक्षशः वानरान् सर्वाः दिशः जानक्याः अन्वेषणाय अप्रेषयत्। जानक्याः अन्वेषणस्य दायित्वं मह्यमपि अददात्। अहं विशालसमुद्रं लङ्घयित्वा अत्र आगच्छामि। श्रीरामचन्द्रः जानक्याः रूपम्, वर्णः, आकृतिः, गुणः इत्यादीनां यथा वर्णनम् अकरोत् तां शुभगुणसम्पन्नां देवीम् अद्य अहं प्राप्नोमि। एतावद् उक्त्वा हि हनुमान् तूष्णीम् अभवत्।
हनुमतः वचनानि श्रुत्वा जनकनन्दिन्याः सीतायाः विस्मययुक्ता प्रसन्नता अभवत्। यदा सा उपरि, अधः, इतस्ततः अपश्यत् तदा वृक्षस्य शाखासु निलीय आसीनं विद्युतपुञ्जवद् धूसरवर्णयुक्तं श्वेतवस्त्रधारिणं हनुमन्तम् अपश्यत्। सीतायाः दृष्टिः हनुमति अपतत् इति दृष्ट्वा रक्तमुखः महातेजस्वी पवनकुमारः हनुमान् स्वयम् अशोकवृक्षात् अवतीर्य अधः सीतायाः समीपम् आगच्छत्।
सीतायाः समीपम् आगत्य हनुमान् अत्यन्तं विनयस्वरेण दीनतापूर्वकं प्रणम्य मधुरवाण्या अपृच्छत् हे देवि! भवती का? भवत्याः कोमलशरीरं सुन्दरवस्त्राभूषणैः सुसज्जितस्य योग्यम् अस्ति चेदपि किमर्थम् एवं साधारणजीवनं यापयति? भवत्याः अश्रुपूरिते नेत्रे दृष्ट्वा ज्ञायते यद् भवती अत्यन्तं दुःखिता अस्ति।
भवतीं दृष्ट्वा एवं प्रतीयते यद् भवती आकाशमण्डलात् पतिता रोहिणी अस्ति। भवत्याः शोकस्य कारणं किम्? कुत्रचिद् भवत्याः कश्चन प्रियजनः तु स्वर्गलोकं न अगच्छत्? कुत्रचित्तु भवती जनकनन्दिनी सीता तु नास्ति यां लङ्कापतिः रावणः जनस्थानात् चोरयित्वा आनयत्? भवती यथा वारं वारं हा राम! हा राम! इत्युच्चारयति, एतेन तु अनुमानं भवति यद् भवती हि विदेहकुमारी जानकी अस्ति। यदि भवती सीता अस्ति तर्हि भवत्याः कल्याणं भवतु। भवती मां सत्यं वदतु, किं मम अनुमानं सत्यम् अस्ति?
हनुमतः प्रश्नं श्रुत्वा सीता अवदत् हे वानरराज! तव अनुमानं सत्यमस्ति। अहं हि जनकपुर्याः महाराजस्य जनकस्य पुत्री, अयोध्यायाः चक्रवर्तिनः महाराजदशरथस्य पुत्रवधूः तथा परमतेजस्विनः धर्मात्मनः श्रीरामचन्द्रस्य पत्नी अस्मि।
यदा श्रीरामचन्द्रः पितुः आज्ञया वने निवासं कर्तुम् अगच्छत् तदा अहमपि तेन सह वनम् अगच्छम्। वनात् हि एषः दुष्टः पापी रावणः छलपूर्वकं मम अपहरणं कृत्वा अत्र आनयत्। सः मां निरन्तरं पीडयति। अद्यापि सः मह्यं मासद्वयं यावत् समयं दत्त्वा अगच्छत्। यदि मासद्वयाभ्यन्तरे मम स्वामी मां न उद्धरेत् तर्हि अहम् अवश्यं प्राणान् त्यक्ष्यामि। एतदेव मम शोकस्य कारणम्। इदानीं तव विषये मां ब्रूहि।
*-प्रदीपः!*
No comments:
Post a Comment