*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(सप्तमः सर्गः)
राक्षसीभिः वेष्टिता जनकनन्दिनी सीता।
राक्षसराजरावणस्य गमनात् परं ताः भयङ्कर्यः राक्षस्यः सीतां वेष्टित्वा भाययितुं तर्जितुं च आरभन्त। ताः सीतायाः भर्त्सनां कुर्वत्यः वदन्ति स्म हे अभागिनि! त्रयाणां लोकानां चतुर्दशभुवनानां च विजेतुः महापराक्रमिणः परमतेजस्विनः राक्षसराजस्य शय्या सर्वासां नारीणां भाग्ये न भवति। एतत्तु तव परमसौभाग्यं यद् लङ्कापतिः स्वयं त्वां स्वार्द्धाङ्गिनीरूपेण स्वीकर्तुम् इच्छति। किञ्चिद् विचार्य पश्य! अत्र महद् ऐश्वर्यम्, स्वर्णपुरी तथा अतुलसम्पत्तेः एकछत्रस्वामी। अपरत्र च सः रामः राज्यात् निष्कासितः, निर्धनः, वने वने भ्रमणं कुर्वाणः, हतभागः , साधारणः मनुष्यः!
सम्यग् विचिन्त्य त्वं निर्णयं कुरु, महाप्रतापिनं लङ्काधिपतिं रावणं च पतिरूपेण अङ्गीकुरु। तस्य अर्द्धाङ्गिनी भवेः चेत् तव कल्याणं स्यात्, अन्यथा रामस्य वियोगात् स्वयं मरिष्यसि अथवा राक्षसराजः त्वां हनिष्यति। तव एतत् कोमलशरीरम् एवमेव नष्टं भवतु इति वयं नेच्छामः। महाराजस्य रावणस्य विलासभवनं गत्वा रमणं कुरु। महाराजः तुभ्यम् एतावद् विलासमयं सुखं प्रदास्यति यस्य त्वं निर्धनवनवासिना सह स्थित्वा कल्पनामपि कर्तुं न शक्नोषि।
राक्षसीनां वचनानि श्रुत्वा कमलनयनी सीता नेत्रयोः अश्रूणि पूरयित्वा अवदत्, युष्माकं सर्वासाम् अयं लोकविरुद्धः पापपूर्णः च प्रस्तावः मम हृदये क्षणमात्रमपि न तिष्ठति। काचिद् मानवकन्या कस्यचन राक्षसस्य भार्या भवितुं नार्हति। यूयं सर्वाः मां खादन्तु नाम, तथापि अहम् युष्माकं प्रस्तावं न स्वीकरिष्यामि।
मम पतिः दीनः राज्यहीनः वा भवतु नाम, सः एव मम स्वामी अस्ति। सर्वदा च अहं तस्मिन् अनुरक्ता भवामि, अग्रे अपि तस्मिन्नेव अनुरक्ता भविष्यामि। यथा सुवर्चला सूर्ये, महाभागा शची इन्द्रे, अरुन्धती महर्षिवसिष्ठे, रोहिणि चन्द्रे, सुकन्या च्यवने, सावित्री सत्यवति, श्रीमती कपिले, मदयन्ती सौदासे, केशिनी सगरे, दमयन्ती च नले अनुरक्ताः भवन्ति तथैव अहमपि मम पत्यौ इक्ष्वाकुवंशशिरोमणौ श्रीरामे अनुरक्ता अस्मि।
सीतायाः वचनं श्रुत्वा राक्षसीनां क्रोधस्य सीमा नासीत्। ताः रावणस्य आज्ञानुसारं कठोरवचनैः तां भर्त्सयन्ते स्म। अशोकवृक्षे निलीय उपविष्टः हनुमान् तूष्णीमेव सीतां प्रति भर्त्सयमानानां राक्षसीनां वार्तां शृणोति स्म। ताः सर्वाः राक्षस्यः कुपिताः भूत्वा सीतायाः उपरि सर्वासु दिक्षु युगपत् आक्रमणम् अकुर्वन्। तासां क्रोधः अत्यधिकः आसीत्। राक्षस्यः तां वारं वारं तर्जन्ति स्म। अनेन सर्वाङ्गसुन्दरी कल्याणी अश्रूणि मार्जन्ती सीता अशोकवृक्षस्य अधः अगच्छत् यस्मिन् अशोकवृक्षे महावीरः हनुमान् आसीनः आसीत्। शोकसागरे निमज्जिता विशाललोचना वैदेही तस्य वृक्षस्य अधः तूष्णीम् उपाविशत्। सा अत्यन्तं दुर्बला अभवत्, तस्याः वस्त्रं च अत्यन्तं मलिनम् आसीत्। विकरालराक्षस्यः पुनः तां वेष्टित्वा तर्जितुम् आरभन्त।
*-प्रदीपः!*
No comments:
Post a Comment