*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(एकादशः सर्गः)
हनुमतः विशालरूपम्।
महावीरस्य हनुमतः मुखात् तद् अद्भुतवचनं श्रुत्वा देवी सीता विस्मयपूर्वकम् अपृच्छत् हनुमन्! तव शरीरं तु अतीव लघु अस्ति। मां नीत्वा त्वं कथम् अतिदूरमार्गम् अतिक्रम्य गन्तुं शक्नुयाः? तव अयं दुःसाहसः तव वानरोचितचपलता इत्यहं मन्ये।
स्वं प्रति सीतायाः अविश्वासः इति ज्ञात्वा हनुमान् स्वस्य तिरस्कारः अभवत् इति अमन्यत। पुनः सः अचिन्तयत्, मम शक्त्याः सामर्थ्यात् च देवी सीता अपरिचिता इति कारणतः एवं कथयति, अतः अहम् इच्छानुसारं रूपं धर्तुं शक्नोमि इति तां दर्शयेयम्। सीतायाः विश्वासः भवतु इति विचिन्त्य बुद्धिमान् कपिवरः तदानीम् आत्मानं वर्धयति स्म। क्षणाभ्यन्तरे तस्य शरीरं मेरुपर्वतस्य समानम् उन्नतम् अभवत्।
सः प्रज्वलिताग्नेः समानः तेजस्वी दृश्यते स्म। तत्पश्चात् पर्वतवद् विशालकायः, ताम्रवद् रक्तवर्णमुखम्, वज्रवत् दन्तः, खड्गवद् नखः इत्यादिभिः युक्तः भयानकः वानरवीरः हनुमान् विदेहनन्दिनीम् अवदत् हे देवि! पर्वतः, वनम्, भित्तिः, भवनम्, नगरद्वारम्, लङ्कापुरी, इत्यादिभिः सह रावणम् उत्थापयितुं मयि शक्तिः अस्ति। अतः हे विदेहनन्दिनि! भवत्याः आशङ्का वृथा अस्ति। हे देवि! भवती मया सह गत्वा लक्ष्मणेन सह रघुनाथस्य शोकं दूरीकुर्यात्।
हनुमतः आश्चर्यजनकं रूपं विस्मयपूर्वकं पश्यन्ती सीता अब्रवीत् हे पवनसुत! तव शक्त्यां सामर्थ्ये च इदानीं मम काचिदपि शङ्का नास्ति। वायुवत् तव गतिः अग्निवत् तव तेजः चास्ति। किन्तु अहं तव प्रस्तावं स्वीकर्तुं न शक्नोमि। अहं स्वेच्छया मम पतिमतिरिच्य अन्यस्य कस्यापि पुरुषस्य स्पर्शमपि कर्तुं न शक्नोमि। मम जीवने मम शरीरस्य स्पर्शम् एक एव परपुरुषः अकरोत्, सः दुष्टः रावणः यः मां बलात् अपहृत्य आनयत्। तस्य वेदनया इदानीमपि मम शरीरं ज्वलति। तस्य प्रायश्चित्तं तदा भविष्यति यदा राघवः तस्य दुष्टस्य वधं करिष्यति। अत्रैव मम प्रतिशोधः, राघवस्य च प्रतिष्ठा अस्ति।
जानक्याः मुखात् तादृशं युक्तियुक्तं वचनं श्रुत्वा हनुमतः हृदयं प्रफुल्लितम् अभवत्। सः प्रसन्नः भूत्वा अवदत् हे देवि! इत्थं वचनं तु भवादृशी साध्वी पतिव्रता स्त्री हि वक्तुं शक्नोति। श्रीरामचन्द्रस्य पुरतः अहं भवत्याः दशायाः विस्तारपूर्वकं वर्णनं करिष्यामि, शीघ्रातिशीघ्रं च लङ्कायाः उपरि आक्रमणं कर्तुं तं प्रेरयिष्यामि। इदानीं भवती मह्यम् एवं किमपि चिह्नं ददातु , यद् दृष्ट्वा श्रीरामचन्द्रस्य विश्वासः भवेत् यद् भवती जीविता अस्ति। अपिच तस्य अधीरं हृदयं शान्तं भवेत्।
हनुमतः आग्रहेण देवी सीता स्वीयं चूडामणिं निष्कास्य तस्मै यच्छन्ती अब्रवीत् हे हनुमन्! एतं चूड़ामणिं त्वं तस्मै देहि। एतं दृष्ट्वा हि तस्य मया सह मम मातुः अयोध्यापतेः महाराजदशरथस्यापि स्मरणं भविष्यति। सः एतं सम्यग् अभिजानाति।
तस्मै मम कुशलवार्तां प्रदाय लक्ष्मणाय वानरराजसुग्रीवाय च मम पक्षतः शुभकामनाः प्रकटीकुर्याः। अत्र मम या दशा अस्ति, मां प्रति रावणस्य तथा तस्य क्रूरदासीनां यः व्यवहारः इति तु त्वं स्वयं सर्वम् अपश्यः। त्वं सर्वं विवरणं रघुनाथं श्रावय। लक्ष्मणं ब्रूहि; हे लक्ष्मण! अहं त्वयि अविश्वासं कृत्वा त्वां कटुवचनम् उक्त्वा तव अग्रजस्य पृष्ठतः अप्रेषयम्, तस्य मम महान् पश्चात्तापः अस्ति, अद्यावधि च मम मूर्खत्वस्य परिणामं भुञ्जे। हे पवनसुत! इतोपि अधिकम् अहं किं कथयानि! त्वं तु स्वयं बुद्धिमान् चतुरः चासि। यद् उचितं मन्यसे तत् कुरु।
जानक्याः वचनं श्रुत्वा महावीरः हनुमान् हस्तौ योजयित्वा देवीं सीतां प्रणम्य तस्याः अनुमतिं नीत्वा ततः अगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment