Wednesday, December 18, 2024

Srimad Ramayana Sundara kandam part 10 in sanskrit

*श्रीरामायणकथा, सुन्दरकाण्डम्!*
(दशमः सर्गः)
हनुमता सीतायै प्रदत्तम् आश्वासनम्। 

 पत्युः हस्तं सुशोभितं कुर्वाणां मुद्रिकां नीत्वा सीता ध्यानपूर्वकं पश्यति स्म। तां मुद्रिकां दृष्ट्वा जानकी अत्यन्तं प्रसन्ना अभवत्, अर्थात् मुद्रिकां प्राप्य हि तस्याः पतिं प्राप्नोत् इत्येवं सा प्रसन्ना अभवत्। चन्द्रः यथा राहोः ग्रहणात् मुक्तः भूत्वा द्योतते, तथा तस्याः रक्तम्, श्वेतः, विशालनेत्रे इत्यादिभिः युक्तं मनोहरमुखं हर्षेण प्रफुल्लितम् अभवत्।

पूर्णरूपेण सन्तुष्टा भूत्वा सीता हनुमतः साहसपूर्णकार्यस्य प्रशंसां कुर्वती अब्रवीत् हे वानरश्रेष्ठ! त्वं वास्तवेन अत्यन्तं चतुरः, साहसी तथा पराक्रमी असि। यत् कार्यं सहस्रमेधाविनः मिलित्वा अपि कर्तुं न शक्नुवन्ति तत् कार्यं त्वम् एकाकी हि अकरोः। त्वं मां तयोः उभयोः रघुवंशिभ्रात्रोः कुशलवार्तां श्रावयित्वा मह्यं नवजीवनम् अददाः। हे पवनसुत! अहम् अवगच्छामि यद् मम दुःखस्य अपसारणं शीघ्रं न भवेत्। मया इतोपि प्रतीक्षा करणीया अस्ति।  अन्यथा किं कारणं यद् ययोः विश्वविजयस्य सामर्थ्यम् अस्ति तौ उभावपि भ्रातरौ एतावत् पर्यन्तं रावणस्य हनने सफलौ न अभवताम्! 

कुत्रचिद् एवं तु नास्ति यत् सः मत्तः दूरे अस्ति इत्यतः मां प्रति राघवेन्द्रस्य प्रेम न्यूनम् अभवत्?
अस्तु, इदानीं मां ब्रूहि, किं रघुनाथः अयोध्यायाः तिसृणां मातॄणां मम देवरयोः च कुशलवार्तां कदाचित् प्राप्नोति? किं तेजस्वी भरतः रावणस्य नाशं कृत्वा मां मोचयितुम् अयोध्यातः सेनां प्रेषयिष्यति? किम् अहं मम नेत्राभ्यां राघवस्य बाणैः दुरात्मानः रावणस्य मरणं द्रष्टुं शक्ष्यामि? हे वीर! अयोध्यातः वनं प्रति आगमनसमये रामचन्द्रस्य यः आत्मविश्वासः आसीत्, किम् इदानीमपि तस्य आत्मविश्वासः तथैव अस्ति?

 सीतायाः प्रश्नं श्रुत्वा हनुमान् अवदत् हे देवि! रघुनाथः यदा मम मुखात् भवत्याः वार्तां श्रोष्यति तदा सः समयस्य व्ययम् अकृत्वा यथाशीघ्रं वानराणां सेनां नीत्वा लङ्कापतेः रावणस्य उपरि आक्रमणं कृत्वा तस्य एतां स्वर्णलङ्कां धूलिसात् करिष्यति, भवतीं च तस्मात् मोचयित्वा इतः नीत्वा गमिष्यति। हे आर्ये! अद्यत्वे सः भवत्याः ध्याने एतावान् निमग्नः भवति यत् सः स्वस्य शरीरस्यापि यत्नं न करोति। भोजनादिकमपि विस्मरति। तस्य मुखात् अहर्निशं केवलं हा सीते! हा सीते! इत्येव श्रूयते। भवत्याः विरहेण सः रात्रौ न स्वपिति। यदि कदापि तस्य निद्रा आगच्छेत् तर्हि निद्रावस्थायामपि सः हा सीते इत्युक्त्वा विस्मितः भूत्वा इतस्ततः भवत्याः अन्वेषणं करोति। तस्य इयं दशा अस्माभिः न सह्यते। वयं तस्मै सान्त्वनां प्रदद्मः चेदपि वयं सफलतां न प्राप्नुमः। तस्य पीडा इतोपि वर्धते।
*-प्रदीपः!*

No comments:

Post a Comment