*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(द्वादशः सर्गः)
तपस्विनी स्वयम्प्रभा।
(द्वितीयः खण्डः)
तपस्विनी तदा तान् अवदत्, आदौ यूयं भोजनं कुरुत। एवमुक्त्वा सा तेभ्यः शुद्धं भोजनं फलमूलादिकं च अददात्।
वानराः सर्वे तदा सम्यग् भोजनं कृत्वा तृप्ताः अभवन्। तदन्तरं सा तपस्विनी अवदत् हे वानरश्रेष्ठाः! एतानि दिव्यस्वर्णमयानि उत्तमानि भवनानि दानवानां विश्वकर्मा मयासुरः निरमात्। अत्र निवासं कुर्वतः मयासुरस्य सम्पर्कः अप्सरसा हेमया सह अभवत् यस्मात् क्रुद्धः भूत्वा देवराजः इन्द्रः वज्रेण मयासुरस्य वधम् अकरोत्।
इदानीम् एतत् स्थानं हेमायाः आश्रये अस्ति। अहं मेरसावर्ण्याः कन्या, मम नाम स्वयम्प्रभा अस्ति। हेमा मम प्रिया सखी अस्ति। तया अत्राहं नियुक्ता भूत्वा एतस्य स्थानस्य संरक्षणं करोमि। इदानीं यूयं कथयत, केन प्रयोजनेन यूयं भ्रमथ?
पवनकुमारः हनुमान् अवदत् हे देवि! पितुः आज्ञया दशरथनन्दनः श्रीरामचन्द्रः स्वपत्न्या अनुजलक्ष्मणेन च सह दण्डकारण्ये निवासं करोति स्म। जनस्थानम् आगत्य रावणः तस्य पत्नीं सीतां बलपूर्वकम् अपहृत्य अनयत्। श्रीरामः वानरराजस्य सुग्रीवस्य मित्रम् अस्ति। वयं सर्वे अस्माकं राज्ञः सुग्रीवस्य आज्ञया जानक्याः अन्वेषणं कुर्मः।
अस्याः गुहायाः बहिः गन्तुं कश्चिदपि मार्गः न दृश्यते, अतः भवती एव अस्मान् बहिः गमयितुं साहाय्यं करोतु येन वयं स्वीयं कर्तव्यं पूरयेम।
तपस्विनी स्वयम्प्रभा अब्रवीत् हे वानरश्रेष्ठाः! यद्यपि एतत् स्थानम् आगच्छन् कश्चिद् आजीवनम् इतः गन्तुं न शक्नोति, किन्तु अहं मम तपसः प्रभावेण युष्मान् इतः बहिः गमयिष्यामि। यूयं सर्वे नेत्रे मीलयत।
वानराः सर्वे यदा नेत्रे अमीलयन् तदा तपस्विनी स्वयम्प्रभा निमेषाभ्यन्तरे तान् सर्वान् बहिः गमयित्वा अब्रवीत् , इदानीं यूयं नेत्रे उन्मीलयत! पश्यत! युष्माकं पुरतः एषः समुद्रः तरङ्गायते। युष्माकं कल्याणं भव। एतावद् उक्त्वा हि
तपस्विनी स्वयम्प्रभा ततः स्वीयं स्थानं प्रत्यगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment