*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(दशमः सर्गः)
सीतायाः अन्वेषणम्।
लक्ष्मणात् प्रेरणां प्राप्य सुग्रीवः कैश्चित् वानरसेनाप्रमुखैः सह श्रीरामचन्द्रं मेलितुं प्रस्थानम् अकरोत्। एकां शिविकाम् आनाय्य तस्यां लक्ष्मणम् आदौ आसयत् अनन्तरं सुग्रीवः स्वयं तस्याम् आस्त।
शङ्खान् धमद्भिः लक्षशः वानरसैनिकैः सह सुग्रीवः तत् स्थानं प्राप्नोत् यत्र श्रीरामः निवासं करोति स्म। तत्र गत्वा सुग्रीवः
लक्ष्मणम् अग्रे स्थापयित्वा हस्तौ योजयित्वा श्रीरामस्य सम्मुखे अतिष्ठत्।
रामचन्द्रः प्रसन्नः सन् सुग्रीवम् असजत्, तस्य च प्रशंसां कुर्वन् अवदत् हे वानरेश! समये सम्पूर्णं शुभकार्यं कुर्वाणः राजा हि वास्तविकरूपेण योग्यः शासकः भवति। परन्तु यः सर्वदा भोगविलासादिषु लिप्तः भवति सः शीघ्रं हि विनाशं प्राप्नोति। इदानीं भवतः परिश्रमस्य समयः अस्ति, अत एव भवतः विवेकानुसारं यत् उचितं मन्यते तत् करोतु येन सीतायाः सङ्केतं वयं शीघ्रं प्राप्नुयाम।
श्रीरामस्य नीतियुक्तं वचनं श्रुत्वा सुग्रीवः अवदत् हे प्रभो! अहं तु भवतः अकिञ्चनः दासः अस्मि। अहं भवतः उपकारं कदापि न विस्मरामि। जनकनन्दिन्याः शीघ्रम् अन्वेषणं कारयितुम् अहं सहस्त्रशः वानरसेनाप्रमुखान् नीत्वा अत्र उपस्थितः अस्मि। तेषां सर्वेषामपि स्वकीया स्वकीया महती सेना अस्ति। अपिच ते स्वयम् इन्द्रस्य समानाः महापराक्रमिणः सन्ति।
भवतः आदेशमात्रेण ते लङ्कापतिं रावणं हत्वा देवीं सीताम् आनेष्यन्ति। तेभ्यः भवान् तत्कार्यार्थम् आज्ञां ददातु।
सुग्रीवस्य उत्साहवर्द्धकं वचनं श्रुत्वा रामः अवदत् राजन्! आदौ तु अस्माभिः तद् ज्ञातव्यं भवेत् यत् सीता जीविता अस्ति उत न। यदि सा जीविता स्यात् तर्हि सा कुत्र अस्ति? रावणस्य निवासस्थानं कुत्र अस्ति? तस्य समीपे कीदृशी कियती च सेना अस्ति? सः स्वयं कियान् पराक्रमी अस्ति? इत्यादीनि सर्वाणि ज्ञात्वा अनन्तरम् आगामियोजनायाः विचारं कुर्याम। एतत् कार्यं न तु अहं कर्तुं शक्नोमि न च लक्ष्मणः। एतत् कार्यं तु भवान् एव भवतः सेनाद्वारा कारयितुं शक्नुयात्।
रामस्य वचनं श्रुत्वा सुग्रीवः तस्य सेनाप्रमुखान् आहूय अवदत् हे वीराः! इदानीं मम सम्मानं श्रीरामचन्द्रस्य च जीवनं युष्माकं हस्ते स्तः। यूयं गत्वा दशसु दिक्षु जानक्याः अन्वेषणं कुरुत। पर्वतः, दुर्गमकन्दरा,, वनम्, नदीतटम्, समुद्रद्वीपः, उपत्यका, गुप्तस्थानम् इत्यादिषु सर्वेषु स्थानेषु जानक्याः अन्वेषणं कुरुत। यत्र सन्देहः भवेत् तत्र अन्वेषणं कुरुत। आकाशः, पातालम्, पृथिवी, इत्यादीनां किञ्चनापि स्थानम् अवशिष्टं न भवेत्। एकमासाभ्यन्तरे जानक्याः सङ्केतः लभ्येत। यदि अस्मिन् अवधौ तस्याः सङ्केतः न लभ्येत तर्हि युष्माकं वधः अभवत् इति मन्यन्ताम्।
*-प्रदीपः!*
No comments:
Post a Comment