Sunday, November 24, 2024

Munja & isheeka, Brahman - Sanskrit

|| *ॐ* ||
   " *वन्दे संस्कृतमातरम्* "

  " *लौकिकन्यायकोशः* " ( १०० )

    " *मुञ्जादिषीकोद्धरणन्यायः* "

  मुञ्जनामकस्य तृणविशेषस्य मध्यभागे अतीव कोमलः कश्चन भागः भवति । तस्य नाम इषीका । मुञ्जनिष्कासनेन इषीकायाः ग्रहणं कर्तुं शक्यते । तथैव युक्त्या अन्वयव्यरेकाभ्यां च शरीरात् विभिन्नम् आत्मानं
 साधनसंपन्नाः साक्षातकुर्वन्ति । तदा स्वयम् आत्मा ब्रह्म भवति ।
*यथा*---- यथा मुञ्जात् इषीकैवम् आत्मा युक्त्या समुदधृतः ।
             शरीरत्रियाद् धीरैः परब्रह्वैव जायते ।। ( पञ्चदशी १- ४२ )
        *यथा*--- अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा 
                     सदा जनानां ह्रदये संनिविष्टः ।
                    तं स्वाच्छरीरात् प्रवृहेत् मुञ्जादिवेषिकां 
                    धैर्येण तं विद्यात् शुक्रममृतम् ।। ( कठोपनिषदि ६ )
*卐卐ॐॐ卐卐*
डाॅ. वर्षा प्रकाश टोणगांवकर 
पुणे / महाराष्ट्रम् 
🎸🎸

No comments:

Post a Comment