*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(षष्ठः सर्गः)
बालिपत्न्याः तारायाः विलापः।
बालेः मृत्योः संवादं यदा तस्य पत्नी तारा प्राप्नोत् तदा सा अत्यन्तम् उद्विग्ना अभवत्। सा रुदती तत्र अगच्छत् यत्र बालेः मृतशरीरं पतितम् आसीत्। तारा अङ्गदः च बालेः शवं सङ्क्त्वा रुदितः स्म। तयोः तादृशं रोदनं दृष्ट्वा सुग्रीवस्य महद् दुःखम् अभवत्। तस्य नेत्राभ्यां च अश्रूणि प्रवहन्ति स्म।
तारा बालेः शवं सङ्क्त्वा विलापं करोति स्म, हे आर्यपुत्र! भवादृशस्य पराक्रमिणः वीरस्य हननं रामः निगुह्य अकरोत् यच्च अत्यन्तं निन्दनीयं कर्म अकरोत्। हे नाथ! भवान् तूष्णीं किमर्थम् अस्ति? भवान् स्वीयं पुत्रं कस्य आश्रये स्थापयित्वा अगच्छत्? पश्यतु, सः कथं रोदिति! हे आर्यपुत्र! अद्य भवान् कथं निर्मोहः अभूत्? हे स्वामिन्! भवान् माम् अङ्गदं च कस्य आश्रये त्यक्त्वा अगच्छत्? हे सुग्रीव! अद्य तव मनोरथः पूर्णः अभूत्। अधुना आनन्देन राज्यस्य सुखं भुङ्क्ष्व।
अद्य मत्समीपे मम पुत्रः, ऐश्वर्यम् इत्यादिकं सर्वम् अस्ति चेदपि अहं विधवात्वेन संसारे तिरस्कृतजीवनं यापयिष्यामि। पुत्र अङ्गद! तव धर्मप्रेमिणः पितुः अन्तिमं दर्शनं कुरु। यमलोकं गच्छतः तव पितुः त्वं हस्तौ योजयित्वा अभिवादनं कुरु। हे स्वामिन्! पश्यतु, भवतः पुत्रः भवतः पुरतः हस्तौ योजयित्वा तिष्ठति। भवान् किमर्थं तस्मै आशीर्वादं न ददाति? अद्य भवान् अस्मिन् युद्धरूपियज्ञे मां विना कथं भागम् अग्रहीत्? अर्द्धाङ्गिनीं विना तु कश्चिदपि यज्ञः पूर्णः न भवति।
एवं प्रकारेण तारा निरन्तरं विलापं करोति स्म। बालेः मन्त्री अत्यन्तं कष्टेन बालेः मृतशरीरात् तारां पृथग् अकरोत्।
धनुर्धारिणं रामं दृष्ट्वा तस्य समीपं गत्वा तारा अवदत् हे कमललोचन राम! भवान् वीरः, तेजस्वी, धर्मात्मा, महान् दानवीरः चास्ति। अहं भवन्तं भिक्षां याचे यद् भवान् येन बाणेन मम पत्युः प्राणान् अहरत् तेन बाणेन ममापि प्राणान् हरतु, येन अहमपि मम पत्युः समीपं गच्छेयम्।
*-प्रदीपः!*
No comments:
Post a Comment