Thursday, November 14, 2024

Srimad Ramayana Kishkinda kandam part 1 in sanskrit

*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(प्रथमः सर्गः)
हनुमता सह रामस्य मेलनम्। 

कमलम्, उत्पलं तथा मत्स्यः च इत्यादिभिः परिपूर्णस्य पम्पासरोवरस्य समीपं गत्वा तत्रत्यं रमणीयं दृश्यं दृष्ट्वा पुनः रामः सीतां स्मृत्वा विलापं करोति स्म।
सः लक्ष्मणम् अब्रवीत् हे सौमित्र! अस्य पम्पासरोवरस्य जलं वैदूर्यमणिवत् स्वच्छम् पवित्रं चास्ति। अस्मिन् सरोवरे पुष्पितानि कमलपुष्पाणि अतीव सुन्दराणि सन्ति। जले च  क्रीडन्तः पक्षिणः अतीव मनोहराः सन्ति।  चैत्रमासः सर्वान् वृक्षान्  पल्लवितान् कृत्वा फलपुष्पैः समृद्धान् अकरोत्। चतसृषु दिक्षु मनोहरसुगन्धः प्रसृतः अस्ति।

 यदि अद्य सीता अपि आवाभ्यां सह अभविष्यत् तर्हि एतद् मनोहरं दृश्यं दृष्ट्वा तस्याः हृदयं  प्रफुल्लितम् अभविष्यत्। मन्येऽहं यद् वसन्तरूपी अग्निः मां ज्वलयित्वा भस्मसात् कुर्यात्।  हा सीते! न जाने त्वं कस्यां दशायां स्थित्वा रुदित्वा रुदित्वा कालं यापयसि। अहं कियान् दुर्भगः अस्मि यत् त्वां तु मया सह आनयं किन्तु त्वां रक्षितुं न अशक्नवम्। हे लक्ष्मण! यस्मिन् स्थाने सीता भवेत्, यदि तस्मिन् स्थाने अपि एवं प्रकारेण वसन्तः प्रफुल्लितः स्यात् तर्हि तस्याः विरहविदग्धहृदयम् अत्यन्तं पीडां प्राप्नुयात्। सा अवश्यं मम वियोगात् रुदित्वा रुदित्वा तस्याः प्राणान् त्यजेत्। अहं जानामि यद् जलात् बहिः स्थितानां मीनानां या दशा भवति, मम वियोगात् सीतायाः अपि सा दशा भवेत्।

तस्याः अपि सा दशा भवेत् या दशा अद्य मम अस्ति। परन्तु तस्याः दुःखं मत्तः अधिकमेव भवेत् यतः स्त्रियः पुरुषाणाम् अपेक्षया अधिकभावुकाः कोमलाः च भवन्ति। एतत् सम्पूर्णं दृश्यम् अत्यन्तं मनोहारि अस्ति। यदि सीता अद्य मया सह अभविष्यत् तर्हि एतत् स्थानं त्यक्त्वा अहं कदापि अयोध्यां न अगमिष्यम्। सदैव तया सह अत्रैव रमणम् अकरिष्यम्। किन्तु एतत्तु मम केवलं स्वप्नमात्रम् अस्ति।

अद्य एषः दुर्भगः प्रियसीतायाः वियोगात् दुःखितः सन् वने भ्रमति।  या सीता मत्कृते राजप्रासादस्य सुखं पर्यत्यजत्, वने अहं तस्याः रक्षणं कर्तुं न अशक्नवम्। कथमहं जीवनं धराणि? अहम् अयोध्यां गत्वा कं किं वदिष्यामि? मातरं कौशल्यां किं वदिष्यामि? अहं किमपि विचिन्त्य न प्राप्नोमि। अस्याः विपत्तेः मुक्तेः उपायं न प्राप्नोमि। अहम् अस्मिन् पम्पासरोवरे निमज्ज्य मम प्राणान् त्यक्ष्यामि। हे भ्रातः लक्ष्मण! त्वम् इदानीमेव अयोध्याम् अपगच्छ। अहं जनकनन्दिन्या सीतया विना जीवितुं न शक्नोमि। 

ज्येष्ठभ्रातुः तादृशीं दशां दृष्ट्वा लक्ष्मणः अवदत् हे पुरुषोत्तम राम! भवान् शोकं मा कार्षीत्। हे रघुनन्दन! यदि रावणः पातालतः अपि अधिकं दूरं गच्छेत् तर्हि अपि सः जीवितुं न शक्नुयात्। आदौ भवान् तस्य सङ्केतम् अन्विष्यतु। तदा सः भ्रातृजायां सीतां प्रत्यर्पयेत् अन्यथा सः म्रियेत। भवान् तु अत्यन्तं धैर्यवान् पुरुषः अस्ति। अस्यां विपत्तौ भवान् धैर्यं धरेत्। वयं धैर्येण, उत्साहेन, पुरुषार्थेन च  रावणं पराजित्य तस्मात् सीतां मोचयितुं शक्नुयाम। भवान् धैर्यं धरतु।

लक्ष्मणः यदा तादृग्वचनैः रामम् अबोधयत् तदा   अत्यन्तं सन्तप्तः रामः  शोकं मोहं च परित्यज्य  धैर्यम् अधरत्। तौ पम्पासरोवरम् उत्तीर्य तदा अग्रे अगच्छताम्।  
चलित्वा चलित्वा यदा तौ ऋष्यमूकपर्वतस्य समीपं प्राप्नुतां तदा तस्मिन् पर्वते स्वमित्रैः सह विचरणं कुर्वाणः अत्यन्तं  बलवान् वानरराजः सुग्रीवः तौ तेजस्विनौ युवकौ अपश्यत्।

तौ दृष्ट्वा सुग्रीवस्य मनसि शङ्का उत्पद्यते स्म, सः च तस्य मन्त्रिणः अवदत् - निश्चयेन बालिः तौ धनुर्धारिणौ वीरौ  छद्मवेशेन अप्रेषयत्।
भयभीतः सन् सुग्रीवः तस्य मन्त्रिभिः सह ऋष्यमूकपर्वतस्य शिखरम् अगच्छत्।
सुग्रीवं तादृशं चिन्तितं दृष्ट्वा वाक्पटुः हनुमान् अवदत् हे वानराधिपते! बालिः तु शापकारणात् अत्र आगन्तुमेव न शक्नोति। तर्हि किमर्थं भवान् वृथैव चिन्तयति?
*-प्रदीपः!*

No comments:

Post a Comment