Saturday, November 9, 2024

Srimad Ramayana Aranya kandam part 18 in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(अष्टादशः सर्गः)
शबर्याः आश्रमः। 

तदन्तरं तौ उभावपि भ्रातरौ कबन्धस्य निर्देशानुसारं सुग्रीवेण सह मेलितुम् अटित्वा अटित्वा पम्पासरोवरस्य पश्चिमतटं प्राप्नुताम्। तत्र तौ शबर्याः रमणीयम् आश्रमम् अपश्यताम्। शबरी सिद्धा तपस्विनी आसीत्। आश्रमे सा पाद्यम् अर्घ्यं च इत्यादिभिः रामलक्ष्मणयोः यथोचितं सत्कारं पूजनं च अकरोत्। 

रामचन्द्रः शबरीम् अपृच्छत्  हे तपस्विनि! तव तपस्यायां बाधा तु केनचित् न उत्पद्यते? कश्चिद् राक्षसः तु त्वां न तुदति? 
रामस्य स्नेहयुक्तं शब्दं श्रुत्वा वृद्धा शबरी हस्तौ योजयित्वा अवदत् हे प्रभो! मम अस्मिन् आश्रमे भवतः आगमनेन मम सम्पूर्णा तपस्या सफला अभवत्। मम गुरुदेवः तु तस्मिन् दिने बैकुण्ठवासी अभवत् यस्मिन् दिने चित्रकूटे भवतः आगमनम् अभवत्। सः तस्य अन्तिमे दिने भवतः विषये माम् अवदत्।

सः अवदत् यत् भवान् अतिथिरूपेण मम आश्रमं प्रति आगमनात् परं भवतः दर्शनं कृत्वा हि अहं श्रेष्ठम् अक्षयलोकं गन्तुं शक्नुयाम्। हे पुरुषसिंह! पम्पातटे फलितानि मधुराणि कानिचन फलानि अहं भवतः कृते संगृह्य अस्थापयम्।  कृपया भवान् तानि स्वीकृत्य मां कृतार्थां करोतु।
रामः सहर्षं शबर्याः हस्तात् फलानि स्वीकृत्य अखादत्। 

अनन्तरं रामः शबरीं तस्याः गुरूणां विषये यदा अपृच्छत् तदा माता शबरी अवदत् हे राम! पुरतः यत् सघनवनं दृश्यते, तद् मतङ्गवनम् अस्ति। एकदा मम गुरवः तस्मिन् स्थाने कञ्चन  विशालं यज्ञम् अकुर्वन्।  यद्यपि सः यज्ञः आबहुभ्यः वर्षेभ्यः पूर्वम् अभवत् तथापि इदानीं यावत् तस्य यज्ञस्य सुगन्धितधूमः  सम्पूर्णं वातावरणं सुगन्धितं करोति। यज्ञस्य पात्राणि इदानीमपि यथास्थाने स्थापितानि सन्ति।

 हे प्रभो! अहं मम जीवनस्य सर्वां
धार्मिकमनःकामनाम् अपूरयम्, केवलं भवतः दर्शनस्य अभिलाषः अवशिष्टः आसीत्। अद्य सः अभिलाषः अपि पूर्णः अभूत्। अतः भवान् मह्यम् अनुमतिं ददातु यद् अहं मम एतद् नश्वरशरीरं परित्यज्य तं लोकं गच्छेयं यं लोकं मम गुरवः अगच्छन्।
शबर्याः अदम्याध्यात्मिकशक्तिं दृष्ट्वा रामः अब्रवीत् हे परमतपस्विनि! तव इच्छा अवश्यं पूर्णा भवेत्। अहं प्रार्थयामि यत् परमात्मा तव मनःकामनां पूरयेत्।

रामचन्द्रस्य आशीर्वादं प्राप्य माता शबरी समाधौ लीना भूत्वा तस्याः नश्वरशरीरं परित्यज्य परमलोकं प्रति प्रस्थानम् अकरोत्। ततः परं रामः तस्याः अन्तिमसंस्कारं कृत्वा तौ उभावपि भ्रातरौ पम्पासरोवरम् अगच्छताम्। तस्य निकटे हि पम्पानदी प्रवहति स्म, यस्याः तटं नानाप्रकारवृक्षः, पुष्पम्, पल्लवः च इत्यादिभिः शोभमानम् आसीत्। तत्स्थानस्य शोभां दृष्ट्वा रामः स्वीयं सर्वं शोकं व्यस्मरत्। सः सुग्रीवेण सह मेलनस्य उद्देश्येन  पम्पानद्याः तटे तटे अटित्वा अटित्वा पुरीं प्रति गच्छति स्म। 
॥ अरण्यकाण्डम् समाप्तम्॥
*-प्रदीपः!*

No comments:

Post a Comment