*श्रीरामायणकथा, अरण्यकाण्डम्!*
(चतुर्दशः सर्गः)
सीतारावणयोः संवादः।
(द्वितीयः खण्डः)
सीतायाः कठोरम् अपमानजनकं च वचनं श्रुत्वा रावणः कुपितः सन् अवदत् हे सीते! अहं तुभ्यं द्वादशमासात्मकं समयं ददामि। यदि एकवर्षाभ्यन्तरे त्वं स्वेच्छापूर्वकं मम समीपं न आगच्छेः तर्हि अहं त्वां कर्तयित्वा खण्डं खण्डं करिष्यामि।
पुनः सः राक्षसीः अवदत्, यूयम् एताम् इतः अशोकवाटिकां नीत्वा गच्छत। तत्र नीत्वा तस्यै यावत् कष्टं भयं च दातुं शक्नुथ तावद् यच्छत।
लङ्कापतेः रावणस्य आज्ञां प्राप्य राक्षस्यः सीतां नीत्वा अशोकवाटिकाम् अगच्छन्। अशोकवाटिका किञ्चन रमणीयं स्थलम् आसीत् किन्तु पत्युः वियोगात् निशाचरीणां च दुर्व्यवहारकारणात् सा तत्र अत्यन्तं दुःखिता भवति स्म।
सीतायाः अशोकवाटिकायां प्रवेशः अभवत् इति ज्ञात्वा पितामहः ब्रह्मदेवः देवराजस्य इन्द्रस्य समीपं गत्वा अवदत् हे इन्द्रदेव! पतिव्रता देवी सीता या कदापि दुःखं न अपश्यत् सा इदानीं पत्युः चरणयोः दर्शनात् वञ्चिता भूत्वा अत्यन्तं दुःखिता चिन्तया च सन्तप्ता अभवत्। सा भोजनमपि अत्यजत्।
अस्यां दशायां सा निश्चयेन स्वीयान् प्राणान् त्यक्ष्यति। अतः त्वं शीघ्रं लङ्कापुरीं गत्वा तस्यै उत्तमं हविष्यं प्रयच्छ!
ब्रह्मादेवस्य आज्ञानुसारं इन्द्रदेवः तत्काले हि लङ्कापुरीं प्राप्नोत्।
सः निद्रादेव्याः साहाय्येन तत्रत्यान् सर्वान् राक्षसान् अमोहयत्। पुनः सः सीतायाः समीपं गत्वा अब्रवीत् हे देवि! भवती शोकं मा कार्षीत्। अहं शचीपतिः इन्द्रः रामस्य साहाय्यं करिष्यामि। सः शीघ्रं हि विशालसेनां नीत्वा समुद्रम् उत्तीर्य अत्र आगमिष्यति। अतः भवती एतद् हविष्यं स्वीकरोतु। एतद् हविष्यं भुक्त्वा भवती सहस्रवर्षं यावत् क्षुधातृषाभ्यां रहिता भूत्वा स्थातुं शक्ष्यति।
आशङ्किता सीता अवदत्, कथमहं विश्वासं करोमि यद् भवान् देवराजः इन्द्रः एवास्ति? देवराजः इन्द्रः तदा समस्तदेवोचितलक्षणानां प्रदर्शनं कृत्वा सीतायाः शङ्कां न्यवारयत्। सीतायाः यदा
विश्वासः अभवत् तदा सा अब्रवीत्, एतद् मम सौभाग्यं यद् अद्य मम पत्युः नाम अश्रौषम्। मम कृते भवान् मम श्वशुरस्य पितुः जनकस्य च तुल्यः अस्ति। अहं भवतः हस्तात् एतत् पायसरूपं हविष्यं स्वीकरोमि।
एवं प्रकारेण देवराजेन इन्द्रेण प्रदत्तं हविष्यं भुक्त्वा जानकी क्षुधातृष्णयोः कष्टात् विमुक्ता अभवत्। देवराजः इन्द्रः च तदा ततः देवलोकम् अगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment