Tuesday, October 8, 2024

Srimad Ramayana Aranya kandam part 17a in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(सप्तदशः सर्गः)
कबन्धवधः।
(द्वितीयः खण्डः)

तदा सः कबन्धराक्षसः चीत्कारं कुर्वन् भूमौ अपतत्। भूमौ पतित्वा सः अपृच्छत् हे वीरौ! युवां कौ? लक्ष्मणः तदा  तयोः सम्पूर्णं परिचयम् अददात्।
रामलक्ष्मणयोः परिचयं प्राप्य सः राक्षसः रामम् अवदत् हे महाबाहो राम! पूर्वम् अहम् अत्यन्तं पराक्रमी आसम्, किन्तु पराक्रमी सन्नपि राक्षसरूपं धृत्वा ऋषीन् सर्वदा भायये स्म। 
एकदा स्थूलशिरा-नामकः महर्षिः कुपितः भूत्वा मह्यं शापम् अददात् यद् अहं राक्षसः भवेयम् इति। तस्मात् शापात् मुक्तये यदा अहं प्रार्थये स्म तदा सः अवदत्, यदा रामः तव हस्तौ कर्तयेत् तदा तव मुक्तिः भविष्यति। हे पुरुषश्रेष्ठ! भवान् मह्यं राक्षसयोनेः मुक्तिं प्रदाय मम महान्तम् उपकारम् अकरोत्। इदानीम् इतोपि एकम् उपकारं करोतु यद् भवान् स्वयं मम दाहसंस्कारं करोतु।

कबन्धस्य प्रार्थनां श्रुत्वा रामः अवदत् हे राक्षसराज! अहं तव इच्छाम् अवश्यं पूरयिष्यामि। अहं त्वत् काञ्चित् सूचनां प्राप्तुम् इच्छामि, आशासे यत् त्वम् अवश्यं दास्यसि।  मम अनुपस्थितौ दण्डकारण्यात् लङ्कापतिः रावणः मम पत्नीम् अपहृत्य अनयत्।  अहं तस्य बलम्, पराक्रमः, स्थानं च इत्यादीनां विषये ज्ञातुम् इच्छामि। यदि त्वं जानासि तर्हि कथय।

रामस्य प्रश्नं श्रुत्वा कबन्धः अवदत् हे रघुनन्दन! रावणः महान् बलवान् शक्तिशाली च नरेशः अस्ति। तस्मात् देवः, दानवः, यक्षः, गन्धर्वः च इत्येते सर्वे भीताः भवन्ति। तं पराजेतुं भवान् बुद्ध्या कार्यं कुर्यात्। भवान् इतः पम्पासरोवरं गच्छतु। तत्र ऋष्यमूकपर्वते वानराणां राजा सुग्रीवः तस्य चतुर्भिः वीरैः सह निवासं करोति। सः अत्यन्तं वीरः पराक्रमी तेजस्वी बुद्धिमान् धीरः नीतिनिपुणः चास्ति। तस्य विशालपराक्रमिसेना अप्यस्ति, यस्याः साहाय्येन भवान् रावणस्य उपरि विजयं प्राप्तुं शक्नुयात्।

तस्य ज्येष्ठभ्राता बालिः तस्य राज्यं पत्नीं च अपाहरत्। यदि भवान् सुग्रीवेण सह मित्रतां कुर्यात् तर्हि भवतः उद्देश्यं सफलीभवेत्। सः राक्षसानां सर्वमपि स्थानं जानाति। तेषां मायामपि सः सम्यग् अवगच्छति। अस्मिन् समये तस्यापि कस्यचन विश्वस्तपराक्रमिमित्रस्य  आवश्यकता अस्ति।

यदि भवान् तस्य सखा भवेत् तर्हि सः वानरान् प्रेषयित्वा सीतायाः अन्वेषणं कारयेत्, सममेव सः सीतां प्रत्यानेतुं भवतः साहाय्यं करिष्यति। 
एतावद् उक्त्वा राक्षसः कबन्धः स्वीयान् प्राणान् अत्यजत्। रामचन्द्रः तस्य अन्तिमसंस्कारं कृत्वा लक्ष्मणेन सह पम्पासरोवरं प्रति प्रस्थानम् अकरोत्। पम्पासरोवरस्य निकटे हि तौ कञ्चन सुन्दरं सरोवरम् अपश्यताम्। तस्मिन् सरोवरे तौ उभावपि स्नानम् अकुरुताम्।
*-प्रदीपः!*

No comments:

Post a Comment