Sunday, October 6, 2024

Srimad Ramayana Aranya kandam part 16 in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(षोडशः सर्गः)
जटायोः मृत्युः। 

दुःखेन कातरं शोकसन्तप्तं रामं दृष्ट्वा लक्ष्मणः तस्मै सान्त्वनां प्रयच्छन् अवदत् भ्रातः! भवान् तु मृदुस्वभावयुक्तः जितेन्द्रियः अस्ति। शोकेन वशीभूतः सन् स्वीयं स्वभावं न परित्यजतु। हे रघुकुलभूषण! महत् कर्म, अनुष्ठानं, तपस्या च इत्यादिकं कृत्वा अस्माकं पिता महाराजः दशरथः भवन्तं प्राप्नोत्। भवतः वियोगकारणात् च सः स्वीयान् प्राणान् अत्यजत्। भवान् धैर्यं धरतु। संसारस्य प्रत्येकं प्राणिनां जीवने कदाचिद् विपत्तिः भवति, किन्तु सा विपत्तिः चिरकालं यावत् न तिष्ठति। किञ्चित् कालानन्तरं सा पुनः अपगच्छति। 

अस्माकं गुरोः वसिष्ठस्य शतपुत्रान् एकस्मिन्नेव दिने  गुरुः विश्वामित्रः अहन्। देवता अपि प्रारब्धस्य प्रकोपात् जीवितुं न शक्नोति, पुनः देहधारी प्राणी कथं जीवितुं शक्नुयात्? भवान् तु स्वयं महान् विद्वान् अस्ति, अतः कथमहं भवते शिक्षां प्रदातुं शक्नुयाम्। भवान् परिस्थित्यनुसारं विचारं कृत्वा धैर्यं धरतु। अस्मिन्  जनस्थाने अन्वेषणं कुर्याव चेत् अवश्यं भ्रातृजायायाः सङ्केतं प्राप्स्यावः! 
 
लक्ष्मणस्य सारगर्भितम् उत्तमं वचनं श्रुत्वा रामः प्रयासपूर्वकं धैर्यं धृत्वा सीतायाः अन्वेषणाय लक्ष्मणेन सह खरदूषणयोः जनस्थानं प्रति अगच्छत्। मार्गे सः विशालपर्वताकारशरीरयुक्तं जटायुम् अपश्यत्। तं दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् भ्रातः! अहं चिन्तयामि यद् एषः जटायुः सीताम् अखादत्। अहम् इदानीमेव तं यमलोकं प्रेषयामि। एवमुक्त्वा हि रामः धनुषि बाणस्य सन्धानं कृत्वा जटायुं हन्तुम् गच्छति स्म। स्वं प्रति आगच्छन्तं रामं दृष्ट्वा जटायुः अवदत् हे आयुष्मन्! समीचीनमभूत् यत् त्वम् आगमः! लङ्कायाः राजा रावणः सीताम् अपहृत्य दक्षिणदिशि अगच्छत्। सः एव मां व्रणितम् अकरोत्। 

सीतायाः आर्तनादं श्रुत्वा अहं तस्याः साहाय्यं कर्तुम् आगत्य तेन सह युद्धमपि अकरवम्। मया त्रुटितं रावणस्य एतद् धनुः पश्य! अयं तस्य बाणः! तत्र पश्य! तस्य विमानस्य भग्नाशः। अहं तस्य विमानमपि अत्रुटम्। एषः रावणस्य मृतः सारथिः। तमपि अहम् अहनम्। परन्तु सः महाबली राक्षसः मां ताडयित्वा ताडयित्वा मम इमां दशाम् अकरोत्।  रावणः विश्रवसः पुत्रः कुबेरस्य च भ्राता अस्ति। 

एतावद् उक्त्वा हि जटायोः कण्ठः अवरुद्धः अभवत्। तस्य च मृत्युः अभवत्।
जटायोः प्राणहीनं रक्तरञ्जितं च शरीरं दृष्ट्वा रामः अत्यन्तं दुःखितः सन् लक्ष्मणम् अब्रवीत् हे भ्रातः! अहं कियान् दुर्भगः अस्मि यद् अहं राज्यात् च्युतः अभवम्, गृहात् निर्वासितः अभवम्, पितुः स्वर्गवासः अभवत्, सीतायाः अपहरणम् अभवत्। अद्य पुनः मम कारणात् पितुः मित्रस्य जटायोः अपि निधनम् अभूत्। मम हि कारणात् सः स्वीयान् प्राणान् अत्यजत्। एतस्य मृत्योः कारणात् अहम् अत्यन्तं दुःखितः अस्मि।

त्वं गत्वा काष्ठानि आनय! एषः मम पितृतुल्यः अस्ति, अतः अहं मम हस्ताभ्यां तस्य दाहसंस्कारं करिष्यामि।
रामस्य आज्ञानुसारं लक्ष्मणः काष्ठानि आनयत्। तौ उभावपि मिलित्वा चितायाः निर्माणम् अकुरुताम्। रामः तदा पाषाणखण्डद्वयं घर्षित्वा अग्निम् अज्वलयत्। पुनः   द्विजजटायोः मृतशरीरं चितायां स्थापयित्वा अवदत् हे पूज्य गृध्रराज! यज्ञम् अग्निहोत्रं च कुर्वाणः, युद्धं कृत्वा प्राणान् त्यजन् धर्मात्मा पुरुषः यं लोकं गच्छति तं लोकं भवानपि गच्छतु। अस्मिन् संसारे मनुष्याः सर्वदा भवतः प्रशंसां करिष्यन्ति।

एवमुक्त्वा रामः चितायाम् अग्निम् अज्वलयत्।
अल्पे हि काले जटायोः  नश्वरशरीरं पञ्चभूते विलीनम् अभवत्। ततः परं तौ भ्रातरौ गोदावरीनद्याः तटं गत्वा दिवङ्गताय जटायवे जलाञ्जलिम् अदत्ताम्। 
*-प्रदीपः!*

No comments:

Post a Comment