*श्रीरामायणकथा, अरण्यकाण्डम्!*
(दशमः सर्गः)
रावणं प्रति शूर्पणखायाः धिक्कारः। (द्वितीयः खण्डः)
अहं भवतः पत्नीरूपेण सीतां द्रष्टुम् इच्छामि, अतः यदा अहं ताम् आनेतुं प्रयत्नम् अकरवं तदा लक्ष्मणः मम नासिकां कर्णं च कर्तयित्वा मां कुरूपाम् अकारयत्। सीता भवतः भार्यात्वेन अत्यन्तं योग्या भवेत्, अतः भवान् तां केनापि प्रकारेण अपहृत्य शीघ्रातिशीघ्रम् आनयतु।
शूर्पणखायाः वचनानि श्रुत्वा तथा च स्वमन्त्रिभिः सह विचारविमर्षं कृत्वा अनन्तरं रावणः निश्चयम् अकरोत् यत् सः सीताम् अपहरेत्। तत्समये हि सः रथम् आरुह्य पुनः मारीचस्य समीपम् अगच्छत्।
मारीचः तदा रावणस्य समुचितं सत्कारं कृत्वा अपृच्छत् राजन्! लङ्कायां सर्वे कुशलिनः सन्ति ननु? भवान् एतावत् शीघ्रं पुनः कथं प्रत्यागच्छत्?
रावणः अवदत् हे मारीच! क्रूरः मूर्खश्च रामः स्वबलस्य अनुचितम् उपयोगं कृत्वा अपारसेनया सह मम भ्रात्रोः खरदूषणयोः संहारम् अकरोत्, खरस्य महतः पराक्रमिणः सेनापतेः त्रिशिरसः चापि वधम् अकरोत्। सः मम भगिनीं शूर्पणखामपि कुरूपाम् अकारयत्।
त्वं मम मित्रम् असि। सङ्कटे काले मित्रं हि मित्रस्य साहाय्यं करोति। अहं जानामि यत् मम मित्रेषु शुभचिन्तकेषु च त्वत् अधिकः बलवान्, नीतिमान्,मयि च अत्यन्तं स्नेहं कुर्वाणः अन्यः कश्चिदपि नास्ति। अतः हे मारीच! अहम् इच्छामि यत् त्वं रजतबिन्दुभिः युक्तस्य स्वर्णमृगस्य रूपं धृत्वा रामस्य आश्रमस्य पुरतः गच्छ।
त्वां दृष्ट्वा सीता अवश्यं हि त्वां ग्रहीतुं रामलक्ष्मणौ प्रेषयेत्। तौ उभावपि यदि ततः गच्छेतां तर्हि अहम् एकाकिनीं सीतां प्राप्य तस्याः अपहरणं कृत्वा नेष्यामि।
सीतायाः वियोगः तस्य कृते असह्यः भवेत्, सः च दुर्बलः भवेत्। तस्याम् अवस्थायां रामस्य हननं मत्कृते कठिनं न भवेत्।
रावणस्य वचनं श्रुत्वा मारीचः अवदत् हे लङ्केश! यथा अहं पूर्वम् अवदं यद् एवं कार्यं भवतः कृते उचितं न स्यात्। यदि एतत् कार्यं क्रियेत तर्हि भवतः जीवनं महति सङ्कटे पतेत्। आश्चर्यं यद् भवान् वेदशास्त्राणां ज्ञाता भूत्वा अपि परस्त्रीहरणं यथा भयङ्करं पापं कर्तुम् अग्रेसरति! भवान् जानीयात् यद् रामस्य क्रोधात् भवान् जीवितुं न शक्नुयात्।
मारीचस्य तद् वचनं श्रुत्वा क्रुद्धः रावणः खड्गहस्तः भूत्वा गर्जनेन अवदत् मारीच! अहं त्वां मम मित्रं मत्वा तव समीपम् आगच्छामि, तव अनर्गलप्रलापं श्रोतुं न। तव कापुरुषतापूर्णां युक्तिं श्रुत्वा अहं मम विचारं परिवर्तयितुं न शक्नोमि। सीतायाः अपहरणम् अहम् अवश्यं करिष्यामि। अपिच त्वं मम आज्ञायाः पालनमपि करिष्यसि।
यदि त्वं मम आज्ञां मत्वा मम अस्मिन् कार्ये साहाय्यं न कुर्याः, तर्हि रामलक्ष्मणयोः पूर्वम् अहं तव वधं करिष्यामि।
रावणस्य क्रोधात् भीतः सन् मारीचः स्वीयां सहमतिम् अददात्। तस्य सहमतौ प्रसन्नः सन् रावणः अवदत् , इदानीं प्रमाणितम् अभवत् यत् त्वं मम परमं मित्रम् असि।
तदा रावणः तं नीत्वा दण्डकारण्यम् अगच्छत्। तत्र गत्वा रामस्य आश्रमस्य अन्वेषणम् अकरोत्। यदा आश्रमं प्राप्नोत् तदा रावणस्य निर्देशानुसारं मारीचः मृगरूपं धृत्वा आश्रमस्य निकटे विचरणं करोति स्म। तम् अद्भुतं स्वर्णमृगं दृष्ट्वा सीता आश्चर्यचकिता अभवत्। विस्मिता च भूत्वा सा तस्य समीपम् अगच्छत्। मायावी मारीचः स्वेन मृगसुलभक्रीडनेन सीतायाः मनः मुग्धम् अकरोत्।
No comments:
Post a Comment