*श्रीरामायणकथा, अरण्यकाण्डम्!*
(षष्ठः सर्गः) शूर्पणखा।
(द्वितीयः खण्डः)
तव पत्नी सीता मम दृष्ट्या कुरूपा, क्षुद्रा, विकृतमानवी चास्ति। अतः सा तव योग्या नास्ति। त्वं मम पतिः भवतु, अहमेव तव योग्या अस्मि। एताम् अबलां सीतां नीत्वा त्वं किं करिष्यसि? अहं तव भार्या यदा भविष्यामि तदा अहं तव भ्रातरं तव पत्नीं सीतां च खादिष्यामि। अनन्तरं त्वया सह अहं यत्र तत्र विचरणं करिष्यामि।
शूर्पणखायाः प्रस्तावं श्रुत्वा रामः स्मितहासं कुर्वन् अवदत् भद्रे! त्वं तु पश्यसि एव यद् अहं विवाहितः अस्मि। अपिच मम पत्नी मया सह अस्ति। परन्तु मम भ्राता लक्ष्मणः अत्र एकाकी एवास्ति। सः सुन्दरः, शीलवान्, पराक्रमी चास्ति। यदि त्वम् इच्छसि तर्हि तेन सह विवाहं कर्तुं शक्नुयाः।
रामस्य उत्तरं श्रुत्वा शूर्पणखा लक्ष्मणस्य समीपं गत्वा अवदत् हे राजकुमार! त्वं सुन्दरः असि अहं च युवतिः अस्मि। तव एतस्य सुन्दररूपस्य अहं योग्या अस्मि। अतः अहमेव तव परमसुन्दरी भार्या भवितुं शक्नुयाम्।
यदि त्वं मम प्रस्तावम् अङ्गीकृत्य मया सह विवाहं करिष्यसि तर्हि त्वं मया सह अस्मिन् दण्डकारण्ये सुखपूर्वकं विचरणं कर्तुं शक्नुयाः।
शूर्पणखायाः विवाहप्रस्तावं श्रुत्वा वाक्पटुः लक्ष्मणः अब्रवीत् हे सुन्दरि! अहं रामस्य तुच्छः दासः अस्मि। मया सह विवाहं कृत्वा त्वं केवलं दासी भविष्यसि। अतः एतदेव उचितं भवेत् यत् त्वं भ्रात्रा रामेण सह विवाहं कृत्वा तस्य कनिष्ठा भार्या भव। तव रूपसौन्दर्यं तस्य अनुरूपं भवेत्।
लक्ष्मणस्य परिहासं सा शूर्पणखा अवगन्तुं न अशक्नोत् प्रत्युत लक्ष्मणः तस्याः प्रशंसाम् अकरोत् इति मत्वा पुनः रामस्य समीपं गत्वा क्रोधेन अवदत् हे राम! अस्याः कुरूपसीतायाः कारणात् त्वं मम विवाहप्रस्तावम् अस्वीकृत्य मम अपमानं करोषि। अतः आदौ अहम् एतां हनिष्यामि, तत्पश्चात् अहं त्वया सह विवाहं कृत्वा आनन्दपूर्वकं स्वीयं जीवनं यापयिष्यामि।
एतदुक्त्वा हि प्रचण्डक्रोधं कुर्वती शूर्पणखा विद्युद्वेगेन आगत्य सीतायाः उपरि आक्रमणम् अकरोत्। रामः तस्याः आकस्मिकं आक्रमणं तत्परतापूर्वकं रुद्ध्वा लक्ष्मणम् अब्रवीत् हे वीर! एतया दुष्टया राक्षस्या सह अधिक-वादविवादः नास्ति उचितः, न च एतया सह हास्यविनोदः उचितः। एषा तु जानक्याः हननम् अकरिष्यत्। त्वम् एतां कुरूपां कुलटाराक्षसीं केनचिद् अङ्गेन विहीनां कुर्याः।
रामस्य आज्ञां प्राप्य हि लक्ष्मणः तत्क्षणं खड्गेन दुष्टायाः शूर्पणखायाः नासिकां कर्णं च अकर्तयत्।
पीडया घोर-अपमानेन च सा शूर्पणखा रुदती भ्रात्रोः खरदूषणयोः समीपं गत्वा घोरचीत्कारं कृत्वा तत्र मूर्च्छिता अभवत्।
*-प्रदीपः!*
No comments:
Post a Comment