*श्रीरामायणकथा, अरण्यकाण्डम्।*
(पञ्चमः सर्गः)
पञ्चवट्याम् आश्रमः।
पञ्चवटीं प्रति गमनसमये मार्गे ते (रामः, सीता, लक्ष्मणः) कञ्चन विशालकायं गृध्रम् अपश्यन्। सः कश्चन राक्षसः इति मत्वा लक्ष्मणः तस्य परिचयं ज्ञातुं तम् अपृच्छत् त्वं कः इति।
सः गृध्रः तदा मधुरस्वरेण अवदत् हे तात! अहं भवतः पितुः सखा अस्मि। अहं गृध्रजातेः यशस्विपुरुषस्य अरुणस्य पुत्रः जटायुः अस्मि। कृपया भवन्तः भवद्भिः सह मामपि नीत्वा गच्छन्तु येन अहं भवद्भिः सह स्थित्वा भवतां सेवां कर्तुं शक्नुयाम्।
एवं प्रकारेण अनुमतिं लब्ध्वा जटायुः तैः सह गच्छति स्म। यदा ते पञ्चवटीं प्राप्नुवन् तदा रामः लक्ष्मणम् अब्रवीत् लक्ष्मण! महर्षिः अगस्त्यः यस्य स्थानस्य परिचयम् अददात् तत् स्थानं तु एतदेव। अयमेव पञ्चवटीप्रदेशः। पुरतः गोदावरीनदी प्रवहति। अतः त्वं कस्यचन जलाशयस्य निकटे रमणीयदृश्ययुक्तं योग्यं स्थानं चित्वा तत्र आश्रमस्य निर्माणं कुरु।
लक्ष्मणः आश्रमस्य निर्माणाय गोदावरीनद्याः तटे किञ्चन स्थानम् अचिनोत्, यत्र पुष्पैः परिपूर्णाः वृक्षाः अत्यन्तं मनोहराः प्रतीयन्ते स्म।
तत् स्थानं परितः पुष्पगुल्मलतावल्लरिभिः युक्ताः सालः, ताडः, तमालः, खर्जुरः, पनसः, जलकदम्बः, तिनिशः, पुन्नागः, आम्रः, अशोकः, तिलकः, केवड़ा, चम्पा, स्यन्दनः, चन्दनः, कदम्बः, पर्णासः, लकुचधवः, अश्वकर्णः, पलाशः च इत्यादयः वृक्षाः आसन्। निकटे हि गोदावरीनदी प्रवहति स्म यस्यां हंसः कारण्डः च इत्यादयः पक्षिणः विचरन्ति स्म। ते पक्षिणः तस्य स्थानस्य शोभां वर्धयन्ति स्म, जलं पातुं च हरिणाः तत्र आगच्छन्ति स्म।
लक्ष्मणः तत्र काष्ठानां तथा तृणानां साहाय्येन शीघ्रतापूर्वकं कञ्चन कुटीरं निरमात्। पुनः च सः कुटीरस्य समीपे लतापल्लवादिभिः एकस्य कुटीरस्य निर्माणम् अकरोत्। तस्मिन् कुटीरे सुन्दरस्तम्भैः युक्तां यज्ञवेदीं निरमात्। ततः परं सः कुटीरद्वयं कण्टकैः अवेष्टत।
एवम् आश्रमस्य निर्माणात् परं लक्ष्मणः रामं सीतां च आहूय आश्रमस्य निरीक्षणम् अकारयत्। तौ उभावपि तं सुन्दरम् आश्रमं दृष्ट्वा अत्यन्तं प्रसन्नौ अभवताम्। लक्ष्मणस्य प्रशंसां कुर्वन् रामः अवदत् लक्ष्मण! त्वं तु अस्मिन् दुर्गमे वने राजप्रासादवत् सुविधाजनकं निवासस्थानं निरमात्। तव कारणात् वने हि राजप्रासादात् अपि अधिकं सुखं प्राप्नोमि।
पुनः ताभ्याम् उभाभ्यां सह उपविश्य रामः यज्ञकुटीरे हवनम् अकरोत्। ते तत्र सुखपूर्वकं निवसन्ति स्म, लक्ष्मणः दत्तचित्तः भूत्वा सीतारामयोः सेवां करोति स्म। एवं प्रकारेण तत्र शरदृतोः मासद्वयं सुखपूर्वकं व्यतीतम् अभवत्।
*-प्रदीपः!*
No comments:
Post a Comment