Monday, October 21, 2024

Srimad Ramayana Aranya kanda part 4a in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(चतुर्थः सर्गः)
ऋषेः अगस्त्यस्य आश्रमः।
(द्वितीयः खण्डः)

अस्य धनुषः निर्माणं विश्वकर्मा स्वर्णवज्रयोः सम्मिश्रणेन अकरोत्। एतं बाणं स्वयं ब्रह्मदेवः अददात्।  सूर्यवद् देदीप्यमानः अयं बाणः कदापि व्यर्थः न भवति। देवराजेन इन्द्रेण प्रदत्तम् एतं तूणीरमपि तुभ्यं ददामि। अस्मिन् तूणीरे अग्निवद् दाहकबाणाः पूरिताः सन्ति। एषः खड्गः अस्ति। एतस्य उपरि कथञ्चिद् वा प्रहारः क्रियतां नाम, सः कदापि नष्टः न भवेत्। एतेषाम् अस्त्रशस्त्राणां धारणं कृत्वा त्वम् इन्द्रस्य समानः अजेयः भविष्यसि। एतेषां साहाय्येन त्वं दण्डकारण्ये ये राक्षसाः सन्ति तेषां नाशं कुरु।

महर्षेः उपहारं प्राप्य रामः तस्मै धन्यवादान् ज्ञापयन् अवदत् हे मुनिराज! भवान् माम् एतेषाम् अस्त्रशस्त्राणां योग्यं मन्यते। ममोपरि भवतः इयं महती अनुकम्पा वर्तते। अहम् अवश्यं हि एतेषां सदुपयोगं करिष्यामि। 
मुनिः अवदत् नहि राम! अत्र अनुकम्पायाः प्रसङ्गः नास्ति। मम आश्रमम् आगतानाम् अतिथीनां मध्ये त्वम् असाधारणः अतिथिः असि।
त्वां दृष्ट्वा अहं कृतकृत्यः अभूवम्। लक्ष्मणोऽपि साधारणः अतिथिः नास्ति। तस्य बलिष्ठौ बाहू दृष्ट्वा एवं प्रतीयते यत् सः विश्वविजयी भवेत्।

अपिच जानक्याः पतिप्रेम तथा पतिनिष्ठा संसारस्य  स्त्रीणां कृते अनुकरणीयः आदर्शः अस्ति। सा तु कदापि कष्टस्य छायामपि न अपश्यत्, तथापि केवलं पतिभक्तेः कारणात् सा त्वया सह कठोरं वनम् आगच्छत्। तस्याः अनुकरणं कृत्वा सन्नार्यः स्वर्गस्य अधिकारिण्यः भविष्यन्ति। युष्मान् त्रीनपि प्राप्य मम हृदयं  प्रफुल्लितम् अभूत्। यूयं दीर्घयात्रां कृत्वा आगच्छत, तदर्थं श्रान्ताः अभूत। अत एव इदानीं विश्रमं कुरुत। 
मम तु इच्छा अस्ति यद् यूयम् युष्माकं सम्पूर्णं वनवासकालम् अत्रैव उषित्वा यापयत। अत्र युष्माकं केनापि प्रकारेण मनागपि कष्टं न भविष्यति।

ऋषेः स्नेहयुक्तं वचनं श्रुत्वा रामः हस्तौ योजयित्वा अवदत् हे मुनिराज! यस्य दर्शनं महतां राजामहाराजानां तथा दीर्घकालं यावत् तपस्यां कुर्वताम् ऋषिमुनीनामपि दुर्लभं भवति, तस्य दर्शनस्य सौभाग्यम् अद्य अहं प्राप्तवान्। अस्मिन् संसारे मत्तः अधिकः भाग्यशाली कः भवितुम् अर्हेत्? भवतः इयं महती कृपा, अतिथिसत्कारः च इत्यादिकारणतः वयम् अत्यन्तं कृतज्ञाः स्मः। भवतः आज्ञायाः पालनं कुर्वन्तः वयम् अद्य रात्रौ अवश्यम् अत्रैव विश्रमं करिष्यामः, किन्तु  वनवासस्य सम्पूर्णं कालं भवतः अस्मिन् मनोरमे आश्रमे उषित्वा यापयेम इति अस्माकं मनः इच्छति चेदपि तन्न सम्भवेत्। 

अहं भवतः तपस्यायां कथञ्चिदपि बाधां जनयितुं नेच्छामि। परन्तु भवतः सत्सङ्गतेः लाभात् वञ्चितोऽपि भवितुं नेच्छामि। अतः कृपया सूचयतु यद् भवतः आश्रमस्य निकटे हि एवं किञ्चन स्थानं स्यात् यत्र फलयुक्ताः वृक्षाः, निर्मलं जलम्, तथा च शान्तवातावरणेन युक्तं सघनवनं सन्ति। तत्र अहं कुटीरं निर्माय निवासं करिष्यामि।  
मुनिः अगस्त्यः क्षणमेकं विचार्य अवदत् हे राम! यदि त्वम् अत्रैव निवासं कुर्याः तर्हि मम काचिदपि असुविधा न भवेत्। 

तथापि यदि त्वं कस्मिंश्चित् एकान्ते स्थाने स्वीयं कुटीरं निर्माय स्थातुम् इच्छसि तर्हि इतः अष्टयोजनदूरे पञ्चवटी नामकं महावनम् अस्ति। तत् स्थानं तथैव अस्ति यथा त्वम् इच्छसि। तत्र  गोदावरीनदी प्रवहति। तत् स्थानम् अत्यन्तं रमणीयम्, शान्तम्, स्वच्छम्, पवित्रं च विद्यते। 

पुरतः यद् मधुकवनं दृश्यते, ततः उत्तरदिशि गत्वा पुनः तत्र कश्चन महान् पर्वतः अस्ति। तस्य निकटे हि पञ्चवटी अस्ति। तत् स्थानम् अत्यन्तम् आकर्षकम् अस्ति यत् तस्य अन्वेषणे तव काचिदपि समस्या न भवेत्। 

मुनेः उपदेशं प्राप्य सन्ध्यावन्दनादिकं कृत्वा रामः सीतालक्ष्मणाभ्यां सह रात्रौ मुनेः अगस्त्यस्य आश्रमे विश्रमम् अकरोत्। प्रातःकाले पुनः सन्ध्योपासनादिकं समाप्य महामुनेः अनुमतिं नीत्वा रामः सीतालक्ष्मणाभ्यां सह पञ्चवटीं प्रति प्रस्थानम् अकरोत्।
*-प्रदीपः!*

No comments:

Post a Comment