Tuesday, October 15, 2024

Srimad Ramayana Aranya kanda part 1 in sanskrit

Courtesy: Shri.Pradeep Nath, Assam

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(प्रथमः सर्गः)
दण्डकारण्ये विराधस्य वधः।
(द्वितीयः खण्डः)
 
विराधस्य वचनानि श्रुत्वा कुपितः रामः तत्क्षणं हि तं तीक्ष्णबाणैः भिनत्ति स्म। रामस्य बाणः विराधस्य शरीरं यदा अच्छिनत् तदा तस्य शरीरात् रक्तं पृथिव्यां पतति स्म।  
एवं प्रकारेण यदा सः व्रणितः अभवत् तदा सः त्रिशूलेन रामलक्ष्मणयोः उपरि आक्रमणम् अकरोत्। रामलक्ष्मणौ अपि तदा तस्य उपरि अग्निबाणानां वर्षणम् अकुरुताम्। किन्तु विराधे मनागपि तस्य प्रभावः न अपतत्, केवलं तस्य त्रिशूलं हि छिन्नम् अभवत्। 

पुनः रामलक्ष्मणौ यदा शस्त्रैः आक्रमणम् अकुरुतां तदा सः राक्षसः सीतां त्यक्त्वा तस्य बाहुभ्यां रामलक्ष्मणौ गृहीत्वा आकाशमार्गेण अगच्छत्। 
रामः तदा लक्ष्मणम् अब्रवीत् भ्रातः! एषः राक्षसः आवां यत्र नयति, आवां तत्र विरोधं विना गच्छावः। आवयोः कृते इदम् उचितं भवेत्। 
विराधः रामलक्ष्मणौ नयति इति दृष्ट्वा सीता विलापं कुर्वती अवदत् हे राक्षसराज! अहं प्रार्थये यद् एतौ द्वावपि भ्रातरौ मुञ्चतु। 
सीतायाः आर्तनादं श्रुत्वा क्रुद्धौ रामलक्ष्मणौ  विराधस्य हस्तद्वयं सम्यग् गृहीत्वा अत्रुटताम्। सः च मूर्छितः भूत्वा भूमौ अपतत्। लक्ष्मणः तदा तं भूम्याः उत्थाप्य पुनः पुनः भूमौ पातयति स्म। राक्षसः विराधः तदा व्रणितः सन् चित्कारं करोति स्म।

तदा हि रामः अवदत् लक्ष्मण! वरदानस्य कारणात् अयं दुष्टः न म्रियेत। अतः एतदेव उचितं भवेत् यद् आवां भूमौ गर्तं खनित्वा तं तस्मिन् गर्ते पातयेव।
लक्ष्मणः गर्तं खनितुम् आरभत, रामः च विराधस्य ग्रीवायां पादं स्थापयित्वा अतिष्ठत्। 
तदा हि विराधः अवदत् प्रभो! वास्तवेन अहं तुम्बुरू नामकः गन्धर्वः अस्मि। कुबेरः मह्यं शापम् अददात् यद् अहं राक्षसः भवेयम् इति। शापकारणात् अहं राक्षसः अभवम्। अद्य भवतः कृपया तस्मात् शापात् मम मुक्तिः भवति।

रामलक्ष्मणौ तं तस्मिन् गर्ते पातयित्वा तस्योपरि प्रस्तरखण्डान् अपातयताम्। समग्रे वने तदा तस्य आर्तनादः गुञ्जति स्म।
*-प्रदीपः!*

No comments:

Post a Comment