Thursday, October 3, 2024

Garuda & farmer - Sanskrit story

|| ॐ || (३)

'' उपकारस्य फलम् ''

केनचन कृषीवलेन कश्चिद् गरुडः जाले पतितो दृष्टः | कृषीवलः तं गरुडं जालाद् विमोचितवान् | गरुडोऽपि  तस्य उपकारं न विस्मृतवान् | एकस्मिन् दिने यदा कृषीवलः कस्याश्चिद् इष्टिकाया भित्तेः पुरतः विश्रमं कर्तुं उपविष्ट आसीत् तदा अकस्माद् गरुडः तत्र आगत्य कृषीवलस्य उष्णीषं मुखेन धृत्वा आकाशे उड्डयनं कृतवान् | स्वस्य उष्णीषं प्राप्तुं कृषीवलो गरुडस्य पृष्ठतः धावितवान् | किञ्चिद्दूरगमनान्तरं गरुडेन उष्णीषः अधः पातितः | कृषीवलः उष्णीषम् उद्धृत्य स्वस्थानं प्रत्यागतवान् | किन्तु इदं बहु आश्चर्यजनकम् आसीद् यत् तदा इष्टिकाया  भित्तिका पतिता आसीत् | यदा भित्तिका पतिता तदा कृषीवलः तत्र नासीत् |

एवं गरुडेन कृषीवलस्य प्राणाः रक्षिताः | कृषीवलेन कृतस्य उपकारस्य  तेनायं प्रत्युपकारः कृतः ॥

ॐॐॐॐॐॐॐॐॐ

डॉ. वर्षा प्रकाश टोणगांवकर

पुणे / महाराष्ट्र

-------------------------------

No comments:

Post a Comment