Tuesday, February 6, 2024

Srimad Ramayana Balakanda part 22 in sanskrit

*श्रीरामायणकथा, बालकाण्डम्।*
(त्रयोविंशतितमो भागः)
ऋषेः परशुरामस्य आगमनम्। 

राजा दशरथः सर्वैः सह यदा मिथिलातः अयोध्यां प्रति प्रस्थानम् अकरोत् तदा हि चतसृषु दिक्षु पक्षिणां भयङ्करध्वनिः श्रूयते स्म। पृथिव्यां विचरणं कुर्वाणाः पशवः महाराजस्य वामतः धावन्ति स्म। एतद् दृश्यं दृष्ट्वा राजा दशरथः गुरुं वसिष्ठम् अपृच्छत् गुरुदेव! इयं कीदृशी माया यत्र पक्षिणां भयङ्करध्वनिः अमङ्गलसूचकः, पुनश्च वामतः पशूनां धावनं मङ्गलकारि भवति। 
मङ्गलसूचकम् अमङ्गलसूचकं च इत्युभयमपि युगपत् किमर्थं भवति? 

गुरुः वसिष्ठः तदा अवदत् राजन्! पक्षिणां भयङ्करध्वनिना ज्ञायते यत् काचिद् दुर्घटना घटेत, परन्तु पशूनां धावनेन एवं प्रतीयते यत् सा भयानकघटना अनायासेन शाम्येत्। अतः चिन्ता न कार्या। 

तयोः वार्तालापः यदा प्रचलति स्म तदा हि भयङ्करः झञ्झावातः आगतः। तेन झञ्झावातेन महान्तः वृक्षाः भूमौ पतन्ति स्म। तत्समये राज्ञा दशरथेन  भृगुकुलनन्दनः ऋषिः परशुरामः दृष्टः। तस्य वेशभूषा अतीव भयङ्करी आसीत्। मस्तकस्य महत्यः जटाः तस्य मुखमण्डले विसृताः आसन्। तस्य नेत्रयोः क्रोधस्य लालिमा, स्कन्धे महान् परशुः, हस्ते च धनुर्बाणः आसन्। 

 ऋषयः सर्वे तस्य पुरतः गत्वा तस्य स्वागतम् अकुर्वन्। ऋषीणां स्वागतस्य स्वीकरणात् परं सः रामचन्द्रम् अवदत् हे दशरथनन्दन राम! मया ज्ञातं यत् त्वं महान् पराक्रमी असि! त्वं हि भगवतः शिवस्य धनुः अत्रुटः! एवं प्रकारेण तु त्वं अपूर्वख्यातिम् अलभथाः।  

अहं तव कृते अपरं किञ्चन उत्तमं धनुः आनयम्। एतद् धनुः साधारणं न, अपितु जमदग्निकुमारस्य परशुरामस्य विद्यते। 
अतः हे राम! त्वम् एतस्मिन् धनुषि बाणं संस्थाप्य तव शौर्यस्य परिचयं देहि!  
तव बलस्य शौर्यस्य च दर्शनात् परम् अहं त्वया सह द्वन्द्वयुद्धं करिष्यामि।

परशुरामस्य वचनानि श्रुत्वा राजा दशरथः अत्यन्तं विनयस्वरेण अवदत् भगवन्! भवान् वेदज्ञः, स्वाध्यायिब्राह्मणः अस्ति। समस्तक्षत्रियाणां विनाशं कृत्वा भवान् पूर्वं हि स्वीयं क्रोधम् अशमयत्। भवान् देवराजस्य इन्द्रस्य समक्षं प्रतिज्ञां कृत्वा अस्त्रशस्त्राणां परित्यागमपि अकरोत्। अतः हे ऋषिराज! भवान् एतेभ्यः बालकेभ्यः अभयदानं कुर्यात्। यदि भवता रामः हन्येत तर्हि तस्य वियोगात् अस्मासु कश्चिदपि जीवितः न तिष्ठेत्। 

परशुरामः दशरथस्य वार्तां न अशृणोत्। सः रामम् अवदत् हे राम! संसारेऽस्मिन् केवलं धनुर्द्वयं हि सर्वश्रेष्ठं मन्यते। समस्तसंसारः तयोः सम्मानं करोति।  विश्वकर्मा स्वयं तयोः धनुषोः निर्माणम् अकरोत्। तयोः एकं धनुः भगवतः शिवस्य पार्श्वे आसीत्। तेन धनुषा भगवान् शङ्करः त्रिपुरासुरस्य वधम् अकरोत्। तदेव धनुः त्वम् अत्रुटः। 
*-प्रदीपः!*

No comments:

Post a Comment