*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(पञ्चविंशतितमो भागः)
महर्षेः अत्रेः आश्रमः।
(द्वितीयः खण्डः)
देव्याः अनसूयायाः उपदेशान् श्रुत्वा सीता अवदत् हे आर्ये! भवत्याः उपदेशाः मत्कृते अत्यन्तं महत्वपूर्णाः सन्ति। मम माता श्वश्रूः च इमामेव शिक्षाम् अदत्तां यत् पतिः स्त्रियाः गुरुः, देवः, सर्वस्वं च भवति। इदानीं भवत्या प्रदत्तां शिक्षाम् अहं मम हृदये अस्थापयम्। अहं भवत्यै वचनं ददामि यत् पत्युः अनुगमनं हि मम जीवनस्य एकमात्रं लक्ष्यम् अस्ति, तस्मात् मार्गात् च कदापि विचलिता न भवामि।
सीतायाः वचनं श्रुत्वा अनसूया अवदत् पुत्रि! अहं त्वयि अतीव प्रसन्ना अस्मि। त्वं स्वेच्छानुसारं किमपि वरं याचस्व। अहं वनवासिनी अवश्यम् अस्मि किन्तु दैवशक्त्या कस्यापि मानवस्य मनःकामनां पूरयितुं मयि सामर्थ्यम् अस्ति।
सीता अवदत् मातः! अहं पूर्णतया सन्तुष्टा अस्मि। भवती मयि असीमकृपाम् अकरोत् इत्येव मत्कृते यथेष्टम् अस्ति।
देवी अनसूया प्रसन्ना भूत्वा अवदत् हे जानकि! त्वं सदा सौभाग्वती भव। यद्यपि त्वं किमपि न अयाचथाः तथापि अहं तुभ्यम् एतां दिव्यमालां ददामि।
अस्याः दिव्यमालायाः पुष्पाणि कदापि शीर्षाणि न भविष्यन्ति। एतद् दिव्यं वस्त्रमपि स्वीकुरु। एतद् दिव्यं वस्त्रं कदापि मलिनं न भवेत् न च छिन्नं भवेत्। अपिच एतं सुगन्धितम् अङ्गरागमपि ददामि। अयं अङ्गरागः कदापि विवर्णः न भवेत्।
देवी अनसूया सीतायै वस्तुत्रयं दत्त्वा तस्याः पुरतः हि तानि वस्तूनि सीतया अधारयत्। सीता तानि वस्तूनि धृत्वा देवीं अनसूयां शिरसा प्रणम्य रामचन्द्रस्य समीपम् अगच्छत्, देव्या अनसूयया प्रदत्तानि वस्तूनि च तम् अदर्शयत्। सन्ध्यावेलायां सर्वे युगपत् उपविश्य सन्ध्योपासनाम् अकुर्वन्। तत्पश्चात् अनसूया चन्द्रस्य शुभ्रज्योत्स्नायुक्तरात्रौ वनस्य शोभां दर्शयितुं सीतां नीत्वा अगच्छत्। ततः परम् आध्यात्मिकी चर्चा अभवत्। अन्ते ते सर्वे मुनेः आश्रमे विश्रमम् अकुर्वन्।
प्रातःकाले रामः यदा ऋषेः अत्रेः अनुमतिं नीत्वा ततः गन्तुम् उद्यतः अभवत् तदा ऋषिः अवदत् हे रघुनन्दन! अस्मिन् वने बहवः भयङ्कराः राक्षसाः निवसन्ति ये सर्वदा मनुष्यान् पीडयन्ति। यस्मात् बहवः तपस्विनः अकाले हि कालकवलिताः अभवन्। मम इच्छा अस्ति यत् त्वं तेषां विनाशं कृत्वा तपस्विनः रक्षां कुरु।
श्रीरामः महर्षेः आदेशं शिरोधार्यम् इति कृत्वा उपद्रविनः राक्षसान् नष्टीकर्तुं तस्मै वचनम् अददात्। पुनः रामः सीतालक्ष्मणाभ्यां सह ततः दण्डकारण्यं प्रति प्रस्थानम् अकरोत्।
*-प्रदीपः!*
No comments:
Post a Comment