*श्रीरामायणकथा बालकाण्डम्।*
(षोडशः भागः)
विश्वामित्रस्य ब्राह्मणत्वस्य प्राप्तिः।
(द्वितीयः खण्डः)
विश्वामित्रः ब्रह्मदेवं वदति स्म, हे ब्रह्मदेव! मम तपस्या तदा सफला मन्येत यदा ऋषिः वसिष्ठः मां ब्राह्मणं स्वीकुर्यात्।
विश्वामित्रस्य वचनं श्रुत्वा सर्वे देवाः ऋषेः वसिष्ठस्य समीपं गत्वा तं तत् सर्वं वृत्तान्तम् अश्रावयन्।
विश्वामित्रस्य तपस्यायाः कथां श्रुत्वा ऋषिः वसिष्ठः स्वयं विश्वामित्रस्य समीपम् अगच्छत्, तं च आलिङ्ग्य अवदत् हे विश्वामित्र! निःसन्देहः भवान् ब्रह्मर्षिः अस्ति। अहम् अद्यारभ्य भवन्तं ब्राह्मणं स्वीकरोमि।
हे रघुनन्दन! एवं कठोरतपस्यां कृत्वा महान्तं सङ्घर्षं च कृत्वा विश्वामित्रः महत् पदं प्राप्नोत्। सः महान् विद्वान् , धर्मात्मा, तेजस्वी, तपस्वी च विद्यते।
राजा जनकः अपि शतानन्दद्वारा वर्णितां विश्वामित्रस्य कथां शृणोति स्म। सः अवदत् हे कौशिक! अहं भवन्तं राजकुमारौ च मिथिलायां प्राप्य कृतार्थः अभवम्। इदानीं समयः अधिकः अभवत्। भगवान् भास्करः च शनैः अस्तं गच्छति। सन्ध्योपासनायाः समयः अभवत्। अतः इदानीं माम् आज्ञापयतु। श्वः प्रातःकाले पुनः भवतः दर्शनाय आगन्तास्मि। एवं प्रकारेण ऋषेः आज्ञां प्राप्य राजा जनकः मन्त्रिभिः सह राजसभाम् अगच्छत्। विश्वामित्रः अपि रामलक्ष्मणाभ्यां सह स्वीयं निर्दिष्टं स्थानम् अगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment