कस्यचन अशीतिवर्षीयवृद्धस्य हृदयस्य शस्त्रोपचारः अभवत्। तस्य उपचारस्य देयमूल्यम् अष्टलक्षरुप्यकाणि अभवन्।
तद्दृष्ट्वा सः वृद्धः रोदनम् आरभत।
वृद्धस्य रोदनं दृष्ट्वा चिकित्सकः तं वृद्धं सान्त्वयन् अवदत् भोः! रोदनं मा कार्षीत्। चिकित्सायाः देयमूल्यम् अहं किञ्चित् न्यूनीकरोमि इति।
वृद्धः तदा अवदत् नैव! अहं तस्य सम्पूर्णं मूल्यं दातुं समर्थोऽस्मि।
मम नेत्राभ्याम् अश्रूणि तदर्थम् आगतानि यद् अशीतिवर्षं यावद् यः ईश्वरः मम हृदयस्य रक्षणं करोति स्म सः कदापि एकमपि रुप्यकं मां न अयाचत।
*-प्रदीपः!*
No comments:
Post a Comment