*सुभाषितम्।*
*प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः।*
*किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति।।*
अर्थात्--
सर्वेऽपि मानवाः प्रतिदिनम् आत्मनः चरितम्, आचारं, व्यवहारं च परिशीलयेयुः।
कथं परिशीलयेयुः इत्युक्ते सज्जनाः ये सन्ति ते सर्वदा परोपकारार्थं समाजहितार्थञ्च प्रवर्तन्ते। एषः सज्जनानां स्वभावः चरितं च तेषाम्।
पशवः अपि सन्ति। पशवः प्रतिदिनं तृणादिकं चरन्ति शयनं च कुर्वन्ति। एतत् पशूनां चरितम्।
अतः परिशीलनसमये किं पशुचरितेन तुल्यम् अस्ति मम चरितम् उत सज्जनचरितेन तुल्यम् अस्ति मम चरितम् इति यदि प्रतिदिनं मनुष्यः परिशीलयति तर्हि सः उपर्युपरि गच्छति सर्वोच्चे स्थाने च तिष्ठति इति।
*-प्रदीपः!*
No comments:
Post a Comment