खचरस्य सुतस्य सुतः खचरः।
खचरी जननी, न पिता खचरः।
खचरस्य सुतेन हतः खचरः
खेचरी परिरोदिति हा खचर!
(यः उत्तरं ददाति सः खचरः न)
खचरस्य (पवनस्य) सुतस्य (भीमस्य) सुतः खचरः (राक्षसः घटोत्कचः इति) ।
खचरी (राक्षसी हिडिम्बा) (तस्य घटोत्कचस्य) जननी (परम् तस्य) पिता खचरः न। खचरस्य (सूर्यस्य) सुतेन (कर्णेन) हतः खचरः (घटोत्कचः), खचरी (हिडिम्बा) परिरोदिति हा खचर ( पुत्र) इति सरलार्थः।
No comments:
Post a Comment